________________
किन्त्विदानीं तस्य दृष्टिरस्मिन् पार्वेऽपि विचरिता । दृश्यं सर्वमपि स दृष्टवान् प्रतिपन्नवांश्च, तथाऽत्र जगति स स्वीयं स्थानमपि निरूपितवान् । इदानीं वास्तविकताया निरूपणे तस्याऽऽसक्तिर्नाऽऽसीत् नाऽपि चाऽन्यः पार्श्वस्तस्य ध्येयम् ।
__ अन्यत् किञ्चिदपि यदि न काम्येत तदा जगदिदमत्यन्तं सुन्दरमत्यन्तं सरलं शिशुतुल्यं निष्पापं चाऽऽसीत् । चन्द्रस्तारकाणि च सुन्दराण्यासन्, निर्झराः, समुद्रतटः, अरण्यं, पर्वताः, पशवः सुवर्णवर्णा भ्रमराः, पुष्पाणि पतङ्गाश्चेति सर्वमपि सुन्दरमासीत् । ईदृशे सहजे, सरले, प्रबुद्धे, सन्निहितेनैव च सम्बद्धे आशङ्कारहिते च जगति विचरणमप्यतिसुन्दरमतीव मनोरमं चाऽऽसीत् ।
अन्यत्र हि सूर्यः प्रखरतया तपन्नासीत्, अन्यत्र च घनारण्यच्छायासु शीतलता प्रवर्तते स्म, अन्यत्र च कूष्माण्डानि कदलीफलानि च विलसन्ति स्म । दिनं रात्रिश्च लघूभूते भासेते स्म, समुद्रे विचरन्त्या नौकाया वातपटमिव प्रत्येकं मुहूर्तं जवेन संचरति स्म - निधानैः पूर्णमानन्देन च पूर्णम् ।
गच्छता सिद्धार्थेन घनेऽरण्ये वानरयूथमेकं दृष्टं, यद्धि वृक्षाणामुच्चशाखासु प्लवमानं सोन्मादं सोत्साहं च चीत्कुर्वन्नासीत् । अग्रे च तेन मेषाः स्वयूथ्यैः सह विहरन्तो दृष्टाः । एकत्र तडागे तेन क्षुधो निवारणार्थं वेगेन तरन्तो मत्स्या दृष्टाः, तन्मार्गादन्यत्र सरन्तः संक्षुब्धाः स्फुरन्तश्च लघुमीनाश्चाऽपि दृष्टाः । तेषां च पृष्ठतो धावमानस्य रोषाकुलस्य महामत्स्यस्य सामर्थ्य जिघृक्षामपि च स तदुत्सारितजलावर्ते प्रतिबिम्बिते विलोकितवान् ।
एतत् सर्वमपि हि सर्वदा प्रवर्तमानमासीत् किन्तु तेन कदाऽपि नैव दृष्टं तत्, वस्तुतः स तं द्रष्टुमुपस्थितो नाऽऽसीत् । इदानीं स न केवलमुपस्थितोऽभवत् प्रत्युत तदंशभूत एव जातः ।