________________
प्रसन्नमनसा स प्रकाशं छायां च विलोकितवान् चन्द्रं तारकाश्च साक्षात्कृतवान् ।
मार्ग क्रामतस्तस्य, जेतवनस्य सर्वोऽप्यनुभवः स्मृतिपथमायातः - भगवतो बुद्धादुपदेशश्रवणं, गोविन्दाद् वियोजनं, परमज्ञानिना च बुद्धेन सह संभाषणम् । भगवते तेन यदपि कथितमासीत् तस्य प्रत्येकमपि शब्दस्तस्य स्मृतौ यथावदासीत् । तथा यद् वस्तु स स्वयं न ज्ञातवान् तत् तेन भगवते कथमिव कथितमित्यस्याऽऽश्चर्यमद्याऽपि तच्चित्ते जागति स्म ।
स भगवते किं कथितवान् आसीत् ? – यथा - बुद्धस्य परमज्ञानं परमरहस्यं चोपदेशानहमासीत्, वस्तुतस्तदनिर्वचनीयमव्यवहरणीयं चाऽऽसीत्, तथा भगवता बुद्धेन स्वीयसम्बोधिकाले यदनुभूतमासीत् तदेवाऽनुभवितुं तेन प्रवृत्तमासीदिदानीम्, इतः परं स तदेवाऽनुभवितुं प्रारप्स्यते । सर्वैरपि हि स्वयमेवाऽनुभवः प्राप्तव्यः खलु !
स चिरकालाज्जानाति स्म यत् स स्वयमेवाऽऽत्माऽस्ति - ब्रह्मवच्छाश्वतस्वभावः, किन्तु स तं कदाऽपि नैव साक्षात्कृतवान् - यतः स तं विचारजालेन ग्रहीतुमैच्छत् । सोऽजानाद् यद् - इदं शरीरं हि निश्चिततयाऽऽत्मा नाऽऽसीत्, नाऽपि चेन्द्रियाणां विलासः, न विचाराः, न हि बोधः, नैव पाण्डित्यं, नाऽपि च तादृशी कला यया निर्णेतुं शक्येत, विद्यमानैश्च विचारैतनी विचारधारा वा सृज्येत । नहि नहि, विचाराणां जगत् खल्वस्मिन् पार्श्व एवाऽऽसीत, तच्च, यदा कश्चित् काल्पनिकचेतनां स्वचित्ताद् विनाशयेत् तदाऽपि, किञ्चिद निश्चितं लक्ष्यं नैव प्रापयति स्म प्रत्युत तां चेतनां विचारैः पाण्डित्येन च पूरयति स्म ।
विचारा इन्द्रियाणि च नूनं शोभनान्यासन्, तेषां च पृष्ठतो बहूनि रहस्यानि निलीनान्यासन्; यद्यपि उभयोरपि श्रवणं
५०