________________
तथोभाभ्यामपि क्रीडनमप्यावश्यकमासीत्, परमन्यतरस्याऽपि तिरस्करणमधिकमूल्याङ्कनं वाऽनुचितमासीत् । उभयोरपि ध्वनेर्निष्ठया श्रवणमेवोचितमासीत् ।
अतस्तेन निश्चितं यद् – यदान्तर: शब्द आदिशेत् तदेव कर्तव्यं, तथा, यत्र कुत्राऽपि नैव स्थातव्यं किन्तु तत्रैव स्थातव्यं यत्र स शब्दः सूचयेत् । यतो, यदा हि गौतमेन सम्बोधि: प्राप्ता तदा स किमर्थं बोधिवृक्षस्याऽधस्तादुपविष्टः ? नूनं स स्वस्याऽन्तःसम्भूतं ध्वनिं श्रुतवान् आसीद् - येन शब्देन तस्य तत्रैवोपवेष्टुं ध्यातुं चाऽऽदिष्टम् । तेन च शरीरस्येन्द्रियाणां च दमनमकृत्वा, यज्ञादिकमविधाय, स्नानानि प्रार्थनाश्च न कृत्वा, खाद्य-पेयादिकं निद्रा - स्वप्नादिकं वा विधानमनाश्रित्य केवलं तदादेशस्यैव पालनं कृतं सम्बोधिश्च प्राप्ता । बाह्यं कमप्यादेशमवधीर्य केवलमान्तरशब्दस्यैव श्रवणमनुसरणं च, तथा तदर्थमेव सज्जत्वं च श्रेयःकारि नितरामावश्यकं चाऽप्यासीत् । अन्यत् किमप्यावश्यकं नाऽऽसीत् ।
तस्यां रात्रौ स कस्यचिन्नाविकस्य तृणकुट्यां शयितः । निद्रायां तेनैकः स्वप्नो दृष्टः । स्वप्ने हि, भिक्षुकाणां काषायवस्त्रं धृत्वा गोविन्दस्तत्समक्षं स्थित आसीत् । स उदासो दृश्यते स्म सिद्धार्थं च पृच्छति स्म - 'भवान् किमर्थं मां त्यक्त्वा गतवान् ?' एतच्छ्रुत्वा स गोविन्दं परिष्वज्य सान्त्वयित्वा च तन्मस्तकं चुम्बितवान् । एतावता गोविन्दः स्त्रीत्वेन परिणतः । तस्याश्च स्त्रिया वस्त्राञ्चलात् पूर्णावुरोजौ प्रकटीभूतौ । सिद्धार्थश्च मुखं नामयित्वा ततः पयःपानं कृतवान् । तद्धि पानं मधुरमूर्जस्वि चाऽऽसीत् । तस्मिंश्च पाने स्त्रिया: पुरुषस्य च, सूर्यस्य वनस्य च, प्राणिनां, पुष्पाणां, प्रत्येकं फलानां, प्रत्येकं सुखानां च स्वाद आसीत्। पानं च तत् सर्वथोन्मादकमासीत् ।
५१