________________
यदा स जागृतस्तदा पाण्डुरा नदी कुट्या द्वारस्याऽग्रे विलसमाना प्रवहन्त्यासीत्, अरण्याच्चोलूकस्य गभीरः स्पष्टश्च शब्दोऽश्रूयत ।
सूर्योदयानान्तरं सिद्धार्थः स्वस्याऽऽतिथ्यकारिणं नाविकं नद्याः पारं प्रापयितुं प्रार्थितवान् । नाविको हि सिद्धार्थं स्वीयवंशमयतरण्डेन नदीपारं नीतवान् । नद्या विशालो जलविस्तारो बालसूर्यकिरणै रक्तिमानं वहन्निव द्योतते स्म ।
अथ च तत्सौन्दर्यं दृशा पिबन् सिद्धार्थो नाविकमुक्तवान् - 'एषा नदी ह्यतीव सुन्दरा खलु !'
'आम्' नाविकः कथितवान्, 'एषा नदी सुन्दरतमा । अहं तां सर्वतोऽप्यधिकं प्रीणामि । अहमनेकशस्तां श्रुतवान् निरीक्षितवांश्च, तथाऽहं सर्वदाऽपि तत्सकाशात् किञ्चिदिव शिक्षितवानप्यस्मि । नदीसकाशाज्जनो बहु शिक्षितुमर्हति' ।
'उपकृतोऽस्मि सौम्य !', नद्या अपरस्मिन् तटेऽवतरन् सिद्धार्थोऽवदत्, 'किञ्च, भवता क्षन्तव्योऽहं यतो मत्पार्वे भवते तरपण्यं दातुं न किञ्चिदप्यस्ति । अहं हि निराश्रय एको ब्राह्मणपुत्रोऽस्मि, श्रमणश्च जातोऽस्मि' ।
'तत् त्वहं पश्याम्येव । अहं भवत्तो न किञ्चिदप्यपेक्षे । भवान् ह्यन्यदा कदाचित् मे दातुमर्हति' । इति नाविको मृदुतयोक्तवान् ।
___ 'किं भवतो विश्वासोऽस्ति यदहमन्यदा दास्यामीति?' सिद्धार्थो हसन् पृष्टवान् ।
___ 'अवश्यम् । नदी मामेतच्छिक्षितवत्यस्ति यत् प्रत्येकं वस्तु प्रतिनिवर्तत एव । भवानपि भोः श्रमण ! अवश्यं प्रतिनिवर्तिष्यते । भद्रं भवते भूयात्, भवतो मैत्र्येव मे तरपण्यं भवतु । भगवत्पूजाकाले च मां स्मरतु भवान्' – नाविकस्त