________________
मुक्तवान् ।
ततः स्मित्वा द्वावपि स्वस्वमार्गं प्रस्थितौ । नाविकस्य स्निग्धव्यवहारेण सिद्धार्थः प्रसन्नो जात: । 'एष गोविन्दसदृश एवाऽस्ति' इति चिन्तितवान् सिद्धार्थः । 'येऽपि मां मार्गे मिलन्ति ते सर्वेऽपि गोविन्दतुल्या एव, सर्वेऽपि कृतज्ञाः सन्ति, सर्वेऽपि च ते स्वयमेव धन्यवादानर्हन्ति । सर्वेऽपि मे सहयोगिनो भवितुमिच्छन्ति, मम मैत्रीं वाञ्छन्ति, अधिकमविचारयन्तश्च मम वचनमनुवर्तितुमिच्छन्ति । ननु जना हि शिशतुल्या भवन्ति' ।
मध्याह्ने स कञ्चिद् ग्राममतिक्रामन्नासीत् । मृण्मयकुटीराणां पुरतो रथ्यासु बालकाः क्रीडन्त आसन् । ते हि प्रस्तरखण्डैः गुलिकाभिश्च खेलन्त आसन् । सकोलाहलं ते परस्परं युध्यन्ते स्माऽपि । किन्तु यदा हि श्रमणस्तेषां दृष्टिपथं प्राप्तस्तत्क्षणमेव सर्वेऽपि भयं प्राप्य धाविता: कुत्रचिच्च निलीनाः ।
ग्रामप्रान्ते चाऽनुमार्गमेव जलस्रोत आसीत् । तत्कूले च काचित् तरुणी किञ्चिदवनम्य वस्त्राणि क्षालयन्त्यासीत् । सिद्धार्थेन तदभिवादने कृते सा शिर उन्नम्य सस्मितं तं दृष्टवती । तस्या अक्षिणी भ्राजमाने आस्ताम् ।
यथोपचारं साशीर्वचनं स तां नगरमार्गविषयिकीं पृच्छां कृतवान् । तेन सा तत उत्थाय तत्समीपमागता । सुन्दरे वदने तस्या: क्लिन्नावधरौ स्फुरन्तावास्ताम् । तेन सह वक्तुमुत्सुका सा तं ‘किञ्चिदशितं वे’ति पृष्टवती, तथा 'किं तत् सत्यं यत् श्रमणा वनेषु एकाकिन एव स्वपन्ति ? किं तेषां स्त्रियं परिग्रहीतुमधिकारो नास्ति वा ? इत्यपि सा पृष्टवती । ततस्तया स्वीयो वामपादः समुत्थाप्य दक्षिणे पादे स्थापयित्वा तादृशोऽङ्गविक्षेपः कृतो यं काचित् कामातुरा स्त्री भोगार्थं पुरुषमामन्त्रयमाणा करोति, यश्च कामशास्त्रेषु 'वृक्षावरोहण'मिति
५३
—