________________
सज्ज्ञया वर्णितोऽस्ति । एतेन सिद्धार्थः स्वीयाङ्गेषूत्तेजनमनुभूतवान्, रात्रौ दृष्ट स्वप्नं च स्मृत्वा किञ्चिदवनम्य स तस्याः कपिशवर्णं चूचुकं चुम्बितवान् । तत ऊर्ध्वं पश्यन् स तस्याः स्मितमयं वासनापूर्णं च वदनं विलोकितवान् । तस्या अर्धनिमीलतनेत्रयोः अत्युत्कटभोगप्रार्थना विलसति स्म ।
सिद्धार्थोऽपि स्वमनसि तामेवोत्कट भोगेच्छामनुभूतवान् । किन्त्वद्यावधि तेन स्त्री स्पृष्टा नाऽऽसीदित्यत आलिङ्गनं कर्तुमुत्सुकोऽपि स किञ्चिदिव साशङ्को जातः । तस्मिन्नेव क्षणे स स्वीयमान्तरं वचनं श्रुतवान् - 'नही'ति । ततश्च तस्यास्तरुण्या मुखात् सर्वमपि आकर्षणमदृष्टं जातमिव । अधुना तत्र केवलं कामार्त्तस्त्रियाः सतृष्णो दृष्टिपात एवाऽवलोक्यते स्म । स मृदुता तस्याः कपोलं परामृशन् सत्वरमेव निराशायास्तस्याः पुरस्तादेव वंशवनेऽदृश्यो जातः ।
सायङ्कालात् पूर्वमेव सिद्धार्थः किञ्चिन्महन्नगरं प्राप्तः । स हृष्ट आसीत्, यतस्तस्य जनैः सह संवसितुमभिलाष आसीत् । स बहुकालं यावद् वनेषूषित आसीत्, गतरात्रौ च स नाविकस्य वंशमयोटजे दीर्घकालानन्तरं प्रथमवारमेव छदिषोऽधस्तात् शयितवानासीत् ।
नगराद् बहिः, एकत्र सुन्दरे उपवने करण्डं गृहीत्वा गच्छन्तं परिचारकाणां समूहं स दृष्टवान् । तेषां च मध्ये चतुर्भिर्जनैरुह्यमानायामलङ्कृतायां शिबिकायां रक्तवर्णे उपधाने उपविष्टा तेषां स्वामिनी आसीत् । सिद्धार्थ उपवनद्वार एव स्थिरीभूय तत् सर्वमपि निरीक्षितवान् । स तां शिबिकास्थितां स्त्रियमप्यवलोकितवान्। घनश्यामकेशकलापमध्ये शोभमानं तस्यास्तेजस्वि सुमधुरमतीव चतुरं च वदनं स दृष्टवान् । तस्या शोणावोष्ठौ प्रत्यग्राञ्जीरखण्डाविव भासुरावास्तां, दीर्घे वक्रे च भ्रुवौ
५४