________________
कलात्मकतया वर्णिते आस्तां, कज्जलाक्ते दीर्घ नेत्रे अतीव विचक्षणे सावधाने चाऽऽस्तां, हरित-सुवर्णमयस्य चोत्तरीयस्योपरि भ्राजमाना विशदा कृशाऽऽयता च ग्रीवाऽऽसीत् । तस्याः दी? तनू च हस्तौ मृदू सुग्रथितौ मनोरमसुवर्णकङ्कणैश्च शोभमानावास्ताम्।
सिद्धार्थस्तस्याः सौन्दर्यं दृष्ट्वाऽभिभूतो जातस्तस्याऽन्तःकरणं च प्रमुदितम् । यदा च शिबिका तत्पुरत आगता तदा स किञ्चिदवनम्योत्थितवान् तस्याश्च तेजस्वि सुरूपं च वदनं, चतुरे दीर्घ च नेत्रे स्थिरदृष्ट्या निरीक्षितवान् । तस्य श्वासेषु च कश्चिदज्ञातः सुगन्धः प्रसृत इव । साऽपि च सुन्दरी शिरश्चालयित्वा स्मित्वा च तदभिवादनं स्वीकृतवती क्षणार्धेन च परिचारकसमूहेनाऽनुस्रियमाणा सोपवनेऽदृश्या जाता ।।
__सिद्धार्थश्चिन्तितवान् यद् 'नूनं शुभशकुनैर्मया नगरे प्रविष्टं खलु !' । स तूर्णमेवोपवने प्रवेष्टुमुत्सुक आसीत् किन्तु विचारणेन स ज्ञातवान् यत् कथं सर्वेऽपि परिचारका दास्यश्च तं सर्वथाऽवज्ञयाऽविश्वासेन निराकृतिपूर्वं च दृष्टवन्त इति ।
__'अहमितोऽपि श्रमण एव', स चिन्तयति स्म, 'अधुनाऽपि साधुरहं भिक्षाचरः । किन्तु तादृशेन मया नाऽवस्थातव्यमन्यथा कथमत्रोपवने प्रवेष्टुमर्हेयम् ?' ततश्चोच्चैर्हसितवान् सः ।
स उपवनस्य पुरत एव गच्छन्तं कञ्चन जनं पृष्ट्वा तस्याः सुन्दर्या नामादि ज्ञातवान् । उपवनमिदं हि कमलाभिधाया सुविख्यातवाराङ्गनाया आसीत् । तथा नगरमध्येऽपि तस्या एको महालयो निवासस्थानमासीत् ।
ततः स नगरं प्रविष्टः । तन्मनस्येकमेव ध्येयमासीत् । तमेव ध्येयमनुसरन् स समग्रमपि नगरं निरीक्षितवान्, तद्रथ्यासु पर्यटितवान्, कुत्रचित् स्थानेषु स्थिरतया स्थितवान्, प्रान्ते च