________________
नद्यास्तटे विश्रामं कृतवान् ।
सायङ्काले स केनचिन्नापितसहायकेन सह मैत्री कृतवान् यं स वृक्षच्छायायां कार्यं कुर्वन्तं दृष्टवानासीत् । ततो विष्णुमन्दिरे तं पुनरप्युपलभ्य स तं विष्णोर्लक्ष्म्याश्च सम्बन्धिनीः कथाः श्रावितवान् । निशि स नदीतटस्थितायां नावि शयितवान्, प्रत्यूषे च ग्राहकागमनपूर्वमेव स नापितसहायकेन क्षौरं कारितवान् केशांश्च तैलसिक्तान् कारयित्वा प्रसाधितवान् । ततः स नदीं गत्वा सम्यक् स्नातवान् ।
अपराह्ने, यदा सुन्दरी कमला शिबिकया निजमुपवनं प्राप्ता तदा सिद्धार्थो द्वार्येव स्थित आसीत् । स ईषन्नत्वाऽभिवादनं कृतवान् कमलायाश्च प्रत्यभिवादनं प्राप्तवान् । ततः सोऽन्त्यं परिचारकं सञ्जयाऽऽहूय ‘एको ब्राह्मणो युवा भवत्या सह सम्भाषितुमिच्छती'ति सन्देशं कमलायै कथयितुमुक्तवान् । स्तोकवेलयैव स परिचारकः प्रत्यावृत्तः, सिद्धार्थं च स्वेन सह नीतवान् । उपवनमध्ये एवैकत्र मण्डपे पल्यङ्कासीनायाः कमलायाः पार्श्वे तं मुक्त्वा स गतवान् ।
_ 'ह्य उपवनप्रवेशद्वारि भवतैव मेऽभिवादनं कृतं खलु ! ?' इति कमला तं पृष्टवती । _ 'आम् ! मयैव ह्यो भवतीं दृष्ट्वाऽभिवादनं कृतमासीत्' ।
'किन्तु ह्यो भवतः केशा दीर्घा आसन् मुखे च दीर्घकूर्चमासीत्, तथा मस्तकमपि सरजस्कमासीत् खलु ?'
'सम्यङ् निरीक्षितं भवत्या। किन्तु ह्यो भवती ब्राह्मणपुत्रं सिद्धार्थं दृष्टवती यः श्रमणो भवितुं गृहत्यागं कृतवान् वर्षत्रयं च श्रमणीभूय स्थितवान् । अद्य तु, मया त्यक्तोऽस्ति स मार्गः । अस्मिन्नगरे आगतोऽहं सर्वप्रथमं भवतीमेव नयनविषयीकृतवान् । अद्याऽहं भवत्यै कथयितुमागतोऽस्मि यत् - भोः कमले !
५६