________________
भवत्येव प्रथमा स्त्री यस्याः पुरतः सिद्धार्थो नेत्रे अनवनाम्य सम्भाषितवान् । इतः परं यस्याः कस्याश्चिदपि सुन्दर्याः पुरतोऽहं नेत्रे नैवाऽवनामयिष्यामि' ।।
कमला स्मितवती मयूरपिच्छनिर्मितेन व्यजनेन च क्रीडन्ती पृष्टवती – “किं भवान् एतावदेव कथयितुं आगतोऽस्ति वा सिद्धार्थ ! ?'
भवत्यै एतत् कथयितुं, सौन्दर्यविषये च भवतीमभिनन्दितुमागतोऽहमस्मि । तथा यदि भवती अप्रसन्ना न भवेत् तर्हि अहं भवतीं मम मित्रीभवतुं यस्यां च कलायां भवती विदग्धा तस्याः शिक्षणार्थं मे गुरूभवितुं निवेदयितुमिच्छामि, यतोऽहं तस्यां कलायां सर्वथाऽनभिज्ञः ।
श्रुत्वैतत् कमलोच्चैर्हसितवती कथितवती च - 'अरण्यवासी कश्चन श्रमणो मां समागत्य किञ्चित् शिक्षितमिच्छेदिति तु कदाऽपि नैव चिन्तितं मया । तथा, दीर्घकेशयुतो जीर्णवस्त्रधारी च श्रमणः कदाऽपि मत्समीपे नाऽऽगतः । यद्यपि बहवो युवकाः ब्राह्मणपुत्राश्चाऽपि मदन्तिकमागच्छन्ति, किन्तु ते सर्वेऽपि रुचिरवस्त्राणि परिधाय, सुन्दरोपानहौ च धारयित्वाऽऽगच्छन्ति । तेषां केशाः सुगन्धिताः भवन्ति कोषाश्च धनभृता भवन्ति । भोः श्रमण ! एवंरीत्या ते युवानो मदन्तिकमागच्छन्ति' ।
सिद्धार्थ उक्तवान् – 'मयाऽप्येतावता भवत्याः सकाशात् शिक्षितुमारब्धम् । ह्य एव अहं किञ्चित् शिक्षितवान् । मम कूर्च तावदपनीतमेव, केशाश्चाऽपि तैलाक्ताः प्रसाधिताश्च । अधुना बह्ववशिष्टं नास्ति सुन्दरि !, केवलं रुचिरवस्त्रोपानहो धनभृतश्च कोषः - इत्येतदेव ननु ! सिद्धार्थेन त्वितोऽप्यधिककठिनवस्तून्युपलब्धुं प्रयतितं प्राप्तानि चाऽपि तानि । अतः किमर्थमहं तत्र प्रयत्नं न कुर्यां - यदर्थं ह्यो मया निश्चितं - भवत्याः मैत्री
५७