________________
प्राप्तुं भवत्सकाशाच्च कामकलाया आनन्दं शिक्षितुम् ? अहं भवत्या योग्यो विद्यार्थी भविष्यामि कमले ! यतो यद् भवत्या शिक्षयितव्यमस्ति ततोऽपि मया कठिनतरं शिक्षितमस्ति । अतो वदतु सुन्दरि ! उत्तमवस्त्रादिहीनो धनरहितश्चाऽपि प्रसाधितकेशः सिद्धार्थो भवत्या दृष्टौ उचितोऽस्ति न वा ? '
कमला हसितवती । तया कथितं – 'नैव । सोऽधुनाऽपि अयोग्यः । तेन अवश्यं वस्त्राणि परिधातव्यानि - सुन्दरवस्त्राणि, तथोपानहावपि – सुन्दरोपानहौ । तथैव तस्य कोषोऽपि धनपूर्णः स्यात्, तत्पार्श्वे च कमलायाः कृते बहून्युपायनान्यपि स्युः । किं ज्ञातं भवता ? भो अरण्यवासिन् श्रमण ! किमवबुद्धं भवता ? ' 'सम्यगवबुद्धं मया भोः ' सिद्धार्थ उच्चैरवदत् । ‘एतादृशान्मुखाद् यन्निर्गच्छेत् तत् कथमहं नाऽवबुध्येय ? भवत्या मुखं प्रत्यग्राञ्जीरखण्डमिवाऽस्ति कमले !, ममाऽपि चौष्ठौ शोणवर्णौ नवीनौ च। तौ भवत्या ओष्ठयोः सम्यक् अनुरूपौ - इति द्रक्ष्यति भवती । किन्तु कमले ! कथय मां किं भवती कामकलां शिक्षितुमागतादरण्यवासिनः श्रमणाद् भीता तु नास्ति वा ?'
-
‘किमर्थं मयाऽरण्यवासिनो मूर्खश्रमणाद् भेतव्यं यः शृगालैः सह वसति, स्त्रीविषयकं च न किमपि जानाति ?'
'अरे ! स श्रमणो बलवान् निर्भयश्चाऽस्ति । स कदाचिद् भवत्या सह बलादपि व्यवहरेत् भोः सुन्दरि !, स भवतीं लुण्टेत् पीडयेद् वाऽपि' ।
'नैव श्रमण ! अहं सर्वथा भयरहिताऽस्मि । किं कदाचिदपि श्रमणस्य ब्राह्मणस्य वैवं भयं भवेत् - यत् कश्चनाऽऽगत्य तं प्रहृत्य तत्सकाशाद् ज्ञानं, धर्मं, विचारशक्ति वाऽपहरिष्यति ? नैव, यत एतत्सर्वमपि तस्य स्वीयम् । स
५८