________________
स्वेच्छानुसारमेवैतेषां यत्किञ्चिदपि कस्मैचिद् दद्यात् । एतच्च तथ्यं कमलाया विषये कामकलायाश्चाऽऽनन्दविषयेऽपि यथातथमेव। कमलाया अधरौ सुन्दरौ शोणौ च । किन्तु कमलाया इच्छां विरुध्य तौ चुम्बितुं प्रयततां नाम, ततो माधुर्यस्यांऽशोऽपि नैवोपलभ्येत । यतो माधुर्यं कथं प्रकटयितव्यमिति तौ जानीत एव । भवान् हि योग्यश्छात्रोऽस्ति सिद्धार्थ !, अत एतत् सुतरां शिक्षतां यत् प्रेम याचितुं शक्येत, क्रेतुम्, उपहारतया प्रातुं, मार्गे वोपलब्धुं शक्येत; किन्तु कदाऽपि चोरयितुं नैव शक्येत । भवता सम्यक् नाऽवगतं ननु ! । भवादृश: सुन्दरो युवा यदीदं नाऽवगच्छेत् तदा तत् करुणास्पदमेव' ।
सिद्धार्थो नत्वा स्मितवान् – 'भवती सत्यमेव कथयति कमले !, तत् करुणास्पदमेव । सुतरां करुणास्पदम् । नहि नहि, भवत्या मम चाऽधराभ्यां माधुर्यांशोऽपि नैव हारयितव्यः । अतः सिद्धार्थो यदा वस्त्रोपानद्धनादीनि प्राप्स्यति तदैवाऽत्राऽऽगमिष्यति । किन्तु कमले ! किं भवती मे किञ्चन मार्गदर्शनं कुर्याद् वा ?'
'मार्गदर्शनम् ! किमर्थं न ? योऽरण्यात् शृगालानां सहवासाच्च समागतोऽस्ति तादृशस्य वराकस्याऽज्ञानिनश्च श्रमणस्य को वा मार्गदर्शनं नैव कुर्यात् ?'
' तर्हि वदतु प्रिये कमले ! तानि त्रीणि वस्तूनि शीघ्रतयैवाऽधिगन्तुं मया कुत्र वा गन्तव्यम् ?'
'मित्र ! बहवो जना एतज्ज्ञातुमिच्छन्ति । भवता तु यच्छिक्षितं तदेवोपयुज्य धनमर्जनीयं, ततश्च वस्त्रादीनि प्राप्तव्यानि । अन्यया कयाऽपि विधया दरिद्रो जनो धनं प्राप्तुं नैव शक्नुयात्' । किं भवान् किञ्चन जानाति वा ?'
'अहं विचारयितुं धैर्यं धर्तुमुपवसितुं च समर्थः' । ‘न किञ्चिदन्यत् ?’
५९