________________
'नैव । अथवा आम्, अहं काव्यमपि कर्तुं जानामि । यद्यहं भवत्यै काव्यमेकं श्रावयेयं तदा किं भवती मे काव्यं प्रति चुम्बनमेकं वा प्रयच्छेत् ?'
‘अवश्यं, यदि भवत्काव्यं मां प्रीणयेत् । किं तत् काव्यम् ?' क्षणं विचार्य सिद्धार्थेनोक्तं
“निजोपवनं गता कमनीया कमला
उपवनद्वारि च स्थित एकः कपिशः श्रमणः
तत् कमलपुष्पं दृष्टं तेन यदा चकितेन तेन नतं तदा सस्मितं तत् स्वीकृतवती कमला स्वमनसि विचारितवान् श्रमणः कमनीयकमलाकृते कृतं समर्पणं श्रेयो भगवत्कृते कृतात् समर्पणात्" ॥ कमलोच्चैर्हस्ततालं दत्तवती, तेन च तस्याः कङ्कणानि रणरणितानि । 'भवतः कविताऽतीव रमणीया भोः कपिश श्रमण !, तस्यां प्रति चुम्बनप्रदानेन न मे किञ्चिद् विनश्यति' इति कथयन्ती नयनेङ्गितेन सा तं समीपमाहूतवती । सिद्धार्थेन तद्वदनस्य पुरतः स्वीयं वदनं स्थापितं, तस्याश्चाऽधरयोरञ्जीरखण्डतुल्ययोः स्वावधरौ न्यस्तौ । कमला तं गाढं चुम्बितवती, सिद्धार्थश्च सविस्मयं सोत्तेजनं चाऽनुभूतवान् यदेतावता सा तं कियत् शिक्षितवती, कियच्चतुराऽऽसीत् सा, कथं च तं साऽभिभूतवती पराजितवती आकर्षितवती च, तथाऽस्माद्दीर्घचुम्बनादनन्तरं विविधचुम्बनानां दीर्घा परम्परा कथं तं प्रतीक्षितवती चेति । दीर्घं श्वसन् स तत्रैव स्थिरो जातः । तस्मिन् क्षणे, स्वदृष्टिपुरतः स्वयमेव कस्यचन बोधस्य पूर्णताया : द्वारोद्घटनेन बालस्येव विस्मितः स सञ्जात आसीत् ।
६०
—