________________
'भवतः काव्यमतीव सुन्दरमस्ति' – कमलोक्तवती । 'यद्यहं धनिकाऽभविष्यं, तदाऽवश्यं तत्कृतेऽहं भवते धनमदास्यम् । किन्तु काव्यं कृत्वा प्रभूतधनार्जनं नितरां कठिनं भविष्यति, यतः कमलाया मैत्री यदि भवान् वाञ्छति तदा भवता प्रभूतं धनमर्जनीयमेव' । ___ 'भवती कथमिव चुम्बति खलु !!' - सिद्धार्थोऽस्फुटस्वरेण कथितवान् ।
'तत् तु सत्यमेव । एतेनैव मे वस्त्राणामाभरणानामुपानहां सर्वविधवस्तूनां चाऽभावो नैव भवति। किन्तु भवान् किं करिष्यति ? विचारणात् उपवासकरणात् काव्यरचनाच्चाऽधिकं किमपि कर्तुं न शक्नोति भवान् ?'
'अहं यागस्तोत्राणि गातुं जानामि, किन्तु नाऽहमितः परं तानि गायिष्यामि', – सिद्धार्थोऽवदत् । 'अहं मन्त्रानपि जानामि, किन्तु नाऽहं तान् उच्चारयिष्यामि । अहं शास्त्राणि पठितवान्.....'
___'तिष्ठतु', – कमला तं रुद्धवती; 'किं भवान् पठितुं लिखितुं च जानाति वा ?'
'निश्चितमहं जानामि । बहवो जनास्तज्जानन्ति' । _ 'नैव, बहवो जनास्तन्न जानन्ति । अहमेव न जानामि । भवानेतज्जानाति - इत्येतदत्यन्तं सुन्दरं, नूनं सुन्दरम् । कदाचिन्मन्त्रोच्चारणमप्यावश्यकं भवेत्' ।
तदात्वे एव कश्चन परिचारकस्तत्राऽऽगतः, स्वामिन्याः कर्णे च किञ्चित् कथितवान् ।
'कश्चन मां मिलितुमागतोऽस्ति । त्वरया भवानितो निर्गच्छतु । न कश्चिदत्र भवन्तं पश्येत् । अहं भवन्तं श्वो द्रक्ष्यामि' - कमला कथितवती ।
ततः सा तं सेवकं 'पवित्रब्राह्मणायाऽस्मै शुभ्रमेकं वस्त्रं
६१