________________
देय'मित्यादिष्टवती । किमत्र प्रचलतीति अजानन् सिद्धार्थस्तेन सेवकेन दीर्घमार्गेणैकत्र लतामण्डपे नीतः, शुभ्रं वस्त्रं च दत्त्वा वनगहने नीत्वा, 'केनाऽप्यदृष्टतयैवेतः शीघ्रं निर्गच्छतु' – इति च स्पष्टं सूचितम् ।
सिद्धार्थोऽपि सन्तुष्टतया यथासूचनं कृतवान् । वनगहनाच्च शान्त्यैव स्वं मार्ग प्राप्य च उपवनाद बहिरागतः । ससन्तोषं स नगरं प्रतिनिवृत्तो वस्त्रेण सह । एकस्मिन् सत्रागारेऽन्यैर्भिक्षुकैः सह सोऽपि मौनमेवाऽन्नं याचितवान् रोटिकामेकां च प्राप्तवान् । 'मन्ये, श्वो मया याचनीयं नैव भवेत्' - इति स विचारितवान् ।
__ अथ च सहसैव तन्मनसि गर्वभावना समुद्भूता यदिदानीं स श्रमणो नाऽऽसीत् । अतस्तस्याऽन्नयाचनं नोचितम् ।
स तां रोटिकां शुने दत्तवान् स्वयं च निराहार एव स्थितः।
_ 'अत्र जीवनं सरलमस्ति' – सिद्धार्थो विचारयन्नासीत् । 'नैवाऽस्ति काठिन्यमत्र । यदाऽहं श्रमण आसं तदा सर्वमपि कठिनं क्लेशकरं प्रान्ते च निराशाजनकमासीत् । अधुना तु सर्वमपि सरलमस्ति, कमलया चुम्बनद्वारा प्रदत्तस्य शिक्षणस्येव सर्वं सरलम् । अधुना मम धनेन वस्त्रैश्चैव प्रयोजनमस्ति । तानि हि निद्राभङ्गमकृत्वैव प्राप्तुं सर्वथा शक्यानि' ।
सिद्धार्थेन कमलाया नगरस्थितस्य भवनस्याऽन्वेषणं जनान् पृष्ट्वा पूर्वमेव कृतमासीत् । अतो द्वितीयदिने स तत्रैव गतवान् ।
तं दृष्ट्वा तयोक्तं – 'सर्वमपि सुस्थमस्ति । कामस्वामी भवन्तं द्रष्टुमिच्छति । स हि समस्तेऽपि नगरे एव धनाढ्यः । यदि भवांस्तं प्रीणयेत् तदा सोऽवश्यं भवते कार्यं दद्यात् । किन्तु भोः श्रमण ! किञ्चिच्चातुर्यं दर्शयतु । मयाऽन्यद्वारा भवतो नाम तस्य सूचितमस्ति । स हि अतीव समर्थोऽस्ति अतस्तेन सह