________________
मित्रभावेन वर्तताम् । किन्तु तत्सकाशेऽत्यधिकं नम्रत्वमपि मा दर्शयतु । अहं भवन्तं तत्तुल्यमेव द्रष्टुमिच्छामि न तु तस्य भृत्यम्। अन्यथा मम सन्तोषो नैव भविता । कामस्वामी हीदानी वृद्धो निरुत्साहश्च जायमानोऽस्ति । यदि भवांस्तं प्रीणयेत् तदा भवन्तं स विश्वासभाजनं करिष्यत्येव' ।
सिद्धार्थः सस्मितं तस्यै स्वकृतज्ञतामदर्शयत् । यदा च तया ज्ञातं यद् - अनेन ह्योऽद्य वाऽपि न किञ्चिदशितं तदा तया फलानि अन्नं चाऽऽनाय्य तस्य भोजितम् ।
___ 'भवान् नितरां सौभाग्यवानस्ति' – गमनकाले कमला तमुक्तवती । 'भवत्कृते यथाक्रमं द्वाराण्युद्धटमानानि सन्ति । एतत् कथं भवतीति ऊहितुं न शक्नोमि । किं भवत्पार्श्वे किञ्चन मन्त्रादिकमस्ति वा?'।
सिद्धार्थेनोक्तं - 'ह्य एव मया कथितमासीद् यदहं विचारयितुं प्रतीक्षितुं निराहारः स्थातुं च शक्नोमि । किन्तु भवत्या तत्सर्वमनुपयोगि मत्वाऽवगणितम् । किन्तु कमले ! भवत्येव द्रक्ष्यति यत् तत्सर्वमपि सर्वथोपयोगि । भवती ज्ञास्यति यद् - एते मूर्खाः श्रमणा अरण्ये वसन्तोऽपि बहून्युपयोगीनि वस्तूनि शिक्षन्ते जानन्ति च । परह्योऽहं सर्वथाऽनभिज्ञोऽप्रसाधितश्च भिक्षुक आसीत् । ह्यस्तु मया कमला चुम्बिता । इतः परं चाऽहं श्रेष्ठीभविष्यामि धनमुपार्जयिष्यामि, यानि च वस्तूनि भवत्यै मूल्यवन्ति प्रतिभान्ति तेषामहं स्वाम्यं प्राप्स्यामि' ।
___ 'सत्यमिदम्' – कमला स्वीकृतवती । “किन्तु मया विना भवान् किं वाऽकरिष्यत् ? यदि कमला भवन्तं सहायं नाऽकरिष्यत् तदा भवान् कुत्र वाऽस्थास्यत् ?'
___'प्रिये कमले !' – सिद्धार्थ उक्तवान् – 'यदाऽहं भवत्याः समीपे उपवने समागतस्तदा मया प्रथमं पदं न्यस्तम् । श्रेष्ठायाः