________________
सुन्दर्याः सकाशात् कामकला शिक्षितव्येति मे ध्येयमासीत् । यदा हि मया ध्येयमिदं निश्चितं तदैवाऽहं जानामि स्म यदेतदहं सम्पादयिष्याम्येवेति । मयैतदपि ज्ञातं यदत्र भवती मे सहायं करिष्यत्येव, तद्धि मया भवत्याः प्रथमदृष्टिपातेनैव ज्ञातमासीत् तत्रोपवनद्वारे' ।
'अथ यदि नाऽहं भवत्साहाय्यं कर्तुमिच्छामकरिष्यत् तदा?'
'किन्तु भवत्या सेच्छा कर्तव्यैवाऽऽसीत् । शृणु कमले ! यदा वयं जले पाषाणखण्डं क्षिपामस्तदा स खण्डः त्वरितमेव जलस्य तलं प्राप्नोति । सिद्धार्थोऽपि यदैकं ध्येयं लक्ष्यं वा निश्चिनोति तदाऽपि एवमेव भवति । यद्यपि सिद्धार्थो न किञ्चित् करोति, स हि केवलं प्रतीक्षते, चिन्तयति, उपवसति च; तथाऽपि जलतलं प्राप्तस्य प्रस्तरखण्डस्येव, स किञ्चिदपि न कुर्वाणश्चेष्टमानो वा जगतोऽपि व्यापाराणां पारं प्राप्नोति, ननु तत्राऽऽकृष्यते सः, स्वं चाऽऽकृष्यमाणं नैव रुणद्धि । स हि स्वीयध्येयेनैवाऽऽकृष्यते, यतः स स्वीयमनसि ध्येयविरुद्धं न किञ्चिदपि प्रवेष्टमनुमन्यते । इदमेव सिद्धार्थः श्रमणानामन्तिके शिक्षितवान् खलु ! । मूर्खजना एतदेव चमत्कारमिन्द्रजालं वा कथयन्ति, एतच्च पिशाचसाध्यमिति मन्यन्ते । किन्तु पिशाचा न किञ्चिदपि कर्तुं शक्ताः । ननु पिशाचा एव न सन्ति । प्रत्येकं जनश्चमत्कारं कर्तुं शक्तः, प्रत्येकं जनः स्वं ध्येयं प्राप्तुं समर्थो यदि स चिन्तयितुं प्रतीक्षितुमुपवसितुं च शक्नुयात्' ।
कमला तमैकाग्रयेण श्रुतवती । तस्यै तत्स्वरो रोचते स्म, तस्य नेत्रान्निर्गच्छन् प्रकाशो रोचते स्म ।
'ननु मित्र ! यथा भवान् वदति तथाऽपि स्यात्' – सा मृदुतयाऽवदत्, ‘अथवा ननु सिद्धार्थः सुरूपोऽस्ति, तस्य दृष्टिपातः
६४