________________
१. कमला
स्वीयवर्त्मनः प्रत्येकं पदे सिद्धार्थः किञ्चिन्नूतनं शिक्षितवान्, यतस्तस्य कृते सकलमपि जगत् परिवर्तितमासीत् खलु ! तेन च परिवर्तनेन सोऽत्यन्तमाह्लादितोऽभवत् । सोऽरण्ये पर्वतेषु च सूर्यमुदयन्तं निरीक्षितवान् तथा तालवृक्षाच्छादिते दवीयःसमुद्रतटेऽस्तमनमपि विलोकितवान् । निशि स सुविशालं तारकितं नभो दृष्टवान्, नीले प्रवाहे च प्रवहन्तं नावाकृति चन्द्रमसमपि स निर्वणितवान् । स वृक्षान्, नक्षत्राणि, प्राणिनः, जलधरान्, इन्द्रचापान्, शिलोच्चयान्, आरण्यकस्तम्बान्, पुष्पाणि, निर्झरान् सरितश्च, प्रभाते च वनस्पत्यग्रे स्फुरत्प्रभान् अवश्यायकणान्, सुदूररमणीयां पर्वतमालां, कूजतः पक्षिणः, गुञ्जन्तीमधुमक्षिकाः, मृदुपवनैर्दोलायमानानि च व्रीहिक्षेत्राणि विस्मयमुग्धतया निरीक्षितवान् । वर्णसहस्रैर्वणितं रूपसहस्रैश्च शोभमानमेतत् सर्वमपि सर्वकालं प्रकृतौ विलसदासीत् ।
सूर्यश्चन्द्रश्च सर्वदा प्रकाशमानावास्तां, नद्यो हि सर्वदा प्रवहन्त्य आसन्, मक्षिकाश्च सर्वदा गुञ्जन्त्य आसन्; किन्तु पूर्वं ह्येतत सर्वमपि सिद्धार्थस्य निरर्थकं प्रतिभाति स्म, सर्वमपि क्षणिकं मायाजालमयमावरणरूपं चैवाऽनुभूयते स्म, सर्वमप्यप्रत्येयतयैव विलोक्यते स्म, निन्द्यतयोपेक्ष्यते स्म, विचारप्रदेशाच्च निर्वास्यते स्म । यतः सर्वमप्येतत् वास्तविकं न, यतो वास्तविकता हि दृश्यजगतोऽपरस्मिन् पार्वे निहिताऽऽसीत् ।
४८