________________
न
कदाचिद् विनष्टः स्याद्, अतः' । सिद्धार्थो ज्ञातवान् यद् वासुदेवश्चिन्तयन्नाऽऽसीत् कदाचित् तेन बालकेन नौदण्ड आवां पृष्ठतोऽनुगन्तुं रोधनाय कुत्रचित् प्रक्षिप्तो भञ्जितो वा स्यादिति । वस्तुतोऽप्येवमेव जातम् । नौदण्डस्तु नाऽऽसीदेव । वासुदेवस्तं नौकां दर्शयित्वा स्मितवान्, यथा तं कथयतीव – 'किं भवतः पुत्रः कथयितुमिच्छतीति भवान् न पश्यति खलु ? आवां तं नाऽनुगच्छेवेत्यपि तस्येच्छाऽस्तीत्यपि भवान् न पश्यति किल?' । किन्तु स शब्दैस्तद् नैव कथितवान् नूतनं च नौकादण्डं निर्मातुं प्रारब्धवान् । ततः सिद्धार्थः पुत्रान्वेषणाय गन्तुं तदनुज्ञां पृष्टवान् । वासुदेवोऽपि तं नैव न्यषेधत् ।
सिद्धार्थश्चिराय वने तमन्विष्टवान् । ततस्तेन चिन्तितं यदिदं सर्वथा निरर्थकमस्ति । प्रायः स नगरमेव प्राप्तवान् स्यात्, अथवा, यदि स वने स्यात् तथाऽपि यत्र कुत्राऽपि निलीनः स्यात् स्वानुगामिनो मत्तः स्वं गोपयितुम्' । पुनश्च विमर्शं कुर्वता तेनोपलब्धं यत् स्वपुत्रविषयिकी चिन्ता तु तस्य सर्वथा नाऽऽसीत् । तथा, वने तस्य बालकस्य काऽपि हानिः कुतश्चिद् वा भयं वाऽपि नैव जातं स्यादित्यत्राऽऽपि स सप्रत्यय आसीत् । एवं सत्यपि सोऽविश्रान्तं नगरं प्रति चलितवान्, न किन्तु तं रक्षितुमपि तु दैवात् स पुनरपि प्रत्यक्षीभवेदितीच्छयैव केवलम् । प्रान्ते च नगरसीमानं प्राप्तवान् ।
यदा स नगरस्य राजमार्ग प्राप्तस्तदा तदुपान्ते स्थितं सुन्दरं क्रीडोद्यानं - यदेकदा कमलायाः आसीद् – दृष्ट्वा तस्य द्वार्येवाऽतिष्ठत् स्थिरतया । अत्रैव स ऐदम्प्राथम्येन कमलां शिबिकयाऽत्राऽऽगच्छन्तीं दृष्टवान् आसीत् । स समग्रोऽप्यतीतस्तस्य मानसचक्षुषोः पुरतः उपस्थितः इव । पुनरपि स स्वं दीर्घकूर्चयुत-जीर्णवस्त्रधर-धूलिधूसरित-तरुणश्रमणत्वेन प्रत्यक्षी
१३९