________________
कृतवान् । स चिराय तत्रैवाऽवस्थायोद्यानं निरीक्षितवान्, तत्र च बहवो बौद्धभिक्षवस्तेन सुन्दराणां वृक्षाणामधस्तात् सञ्चरन्तो दृष्टाः ।
स तत्रैव तिष्ठन् स्वीयमतीतं जीवनं चित्रपटेषु चित्रितां कथामिव विलोकितवान् । तत्रोद्याने स्थितान् भिक्षून् दृष्ट्वा स युवानं सिद्धार्थं स्मृतवान् कमलया सहितं च तं रमणीयवृक्षराजीमध्ये पर्यटन्तं विलोकितवान् । स स्पष्टतया स्वं तत्रोद्याने कमलया सत्कृतं सर्वप्रथमतया च तस्याश्चुम्बनं स्वीकुर्वन्तं दृष्टवान् । स तदपि स्मृतवान् यथा कथं तेन स्वीयाः पुरातनाः श्रामण्यदिनाः सदर्पं सावज्ञं च समीक्षिता आसन्, कथं च तेन सगर्वमुत्सुकतया च सांसारिकं जीवनं प्रारब्धमासीत् । स कामस्वामिनं, सेवकान्, भोजनसमारम्भान्, द्यूतक्रीडकान्, सङ्गीतकारांश्च मानसे प्रत्यक्षीकृतवान् । कमलाया: गायकपक्षिणं पञ्जरस्थितं चाऽपि स विलोकितवान् । एवं च सर्वमपि जीवनं स पुनरपि जीवितवान्, संसारं श्वसितवान्, वार्धक्यं स्पृष्टवान्, श्रान्तो जातः, निर्वेदमनुभूतवान्, मरणमभिलषितवांश्च; ततश्च पुनरपि पवित्रमोङ्कारं श्रुतवान् ।
चिरायोद्यानद्वार एवाऽवस्थानानन्तरं सिद्धार्थः लक्षितवान् यद् योऽभिलाषस्तमिहाऽऽगन्तुं प्रेरितवान् स सर्वथा मौर्यपूर्ण आसीत्, निजपुत्रं स कदाऽपि बोधयितुं समर्थो नाऽऽसीत्, निजजीवनपद्धतिं च बलात् तस्मिन्नारोपयितुमुचितं नाऽऽसीत् । स पलायितं बालकं प्रति व्रणं प्रतीव गाढं प्रेमाऽनुभूतवान्, समकालमेव चिन्तितवांश्चाऽपि यदयं व्रणो नेदानीं सपूयः कर्तव्यः किन्तु तस्य विरोपणं कर्तव्यमासीत् ।
किन्तु तस्मिन् समये स व्रणो नैव विरूढः, अतः स दुःखितः एव तत्र स्थितः । यदर्थं स्वपुत्रमनुसृत्य स इहाऽऽगत
१४०