________________
तत्प्राप्तेः स्थाने तेन केवलं शून्यता प्राप्ताऽऽसीत् । सदुःखं स तत्रैवोपविष्टः । स्वहृदये किञ्चन म्रियमाणं सोऽनुभूतवान् । स तत्रेदानीं सुखं स्वध्येयपूर्ति वा नैव दृष्टवान् । अतः सर्वथा विषण्णः स प्रतीक्षारतः उपविष्टः । नद्याः सकाशात् स बहु शिक्षितवानासीत् – प्रतीक्षां कर्तुं, धैर्य धर्तुं, श्रोतुं च । स तत्र धूलिमये वर्त्मनि निष्ण्णः श्रोतुमारब्धः । स दुःखितया म्लानतया च स्पन्दमानं स्वहृदयं श्रुतवान् ततः प्रकटन्तं च कञ्चन ध्वनि श्रोतुं प्रतीक्षितवान् । स दीर्घकालं यावत् पादावाकुच्य श्रवणार्थं प्रयतितवान् किन्तु किमपि नैवोपलब्धवान्, ततश्च कमपि मार्ग न दृष्ट्वाऽन्ते स स्वं शून्यतायां निमज्जितवान् । यदा च स स्वीयं व्रणं तीक्ष्णतया व्यथयन्तमनुभूतवान् तदा स 'ओम्' - इति शब्दं जपितवान्, स्वहृदयं च ओङ्कारनादेन पूरितवान् । उद्यानस्था भिक्षवस्तं चिरात् तथा निषण्णं दृष्ट्वा तन्मस्तकं च धूल्याऽवगुण्ठितं विलोक्य करुणाा जाताः, तेषामेकतमश्च तन्निकषा समागत्य द्वे कदलीफले तत्पुरतो मुक्तवान् । किन्तु वृद्धजनः स ते नैव लक्षितवान् ।
एतावता तस्य स्कन्धोपरि कस्यचन हस्तस्य स्पर्शोऽभवत् । एतेन स जागृतोऽभवत् । स इमं मृदुं सचिन्तं च स्पर्शमभिज्ञातवान् झटिति च स्वस्थोऽभवत् । तत उत्थाय स वासुदेवमभिवादितवान् यस्तस्य पृष्ठत आगत आसीत् । यदा स वासुदेवस्य प्रसन्नं वदनं, स्मितमयीं मुखरेखां, भासुरे च लोचने दृष्टवांस्तदा सोऽपि स्मितं कृतवान् । इदानीं स स्वपुरतः पतिते कदलीफले दृष्टवान् । स ते गृहीत्वा तत एकं वासुदेवाय दत्तवानपरं च स्वयं खादितवान् । ततः स मौनमेव वासुदेवेन सह वनं गतवान्, ततश्च नावा नदी समुत्तीर्य स्वीयं कुटीरं प्राप्तवान् । अथाऽपि द्वयोरेकतरोऽपि प्रवृत्तस्य विषये न किमप्युक्तवान्, बालकस्य नामाऽपि नैव गृहीतवान्,
१४१