________________
रक्षतः स्म, स करण्डकोऽपि न दृश्यते स्म । बहिरागत्य दृष्टं तावन्नौरपि घट्टे नाऽऽसीत् । सिद्धार्थेन सम्यङ् निरीक्षिते ज्ञातं यन्नौस्तु परस्मिन् तटे स्थिताऽस्तीति । अर्थात् स बालकः पलायितः । _ 'मया तत्पृष्ठतो गन्तव्य'मिति पूर्वदिने बालकस्य कटुशब्दैर्बहुव्यथितेन सिद्धार्थेनोक्तम् । ‘स बालकः एकल एवाऽरण्यमध्ये कथं यास्यति ? तत्र तस्य कश्चिदपायोऽपि स्यात् खलु ! । अतो वासुदेव ! आवाभ्यां तस्य पृष्ठे गमनार्थमवश्यं तरण्ड एको निर्मातव्य एव' । ___ 'अवश्यं निर्मातव्यस्तरण्डः' – वासुदेव उक्तवान् । 'परं स अपरतटे स्थितां नौकामानेतुं निर्मातव्यो न पुनर्बालकस्य पृष्ठतो गमनार्थम् । गच्छतु नाम सोऽधुना मित्र !, न सोऽस्ति शिशुरितोऽपि, स स्वयं स्वं सम्भालयितुं सुष्ठ जानात्येव । स नगरं प्रति गच्छन्नस्ति, तच्च सम्यगेवाऽस्ति । मा विस्मार्षीदेतद् यद् - भवान् यत्करणमुपेक्षितवान् तदेव स कुर्वन्नस्ति । स स्वीयं रक्षणं कुर्वन् निजमार्गे एव गच्छन्नस्ति । किन्तु सिद्धार्थ ! अहं पश्यामि यद् भवान् खिन्नोऽस्ति । यो पीडां दृष्ट्वा जनेन हसितव्यं तथा भवानपि स्वस्मिन् हसिष्यत्येव तयैव पीडया भवान् खिन्नोऽस्ति ननु !' ।
सिद्धार्थः किमप्युत्तरं न दत्तवान् । स कुठारं गृहीत्वा तरण्डनिर्माणार्थमपेक्षितं काष्ठं छेत्तुमारब्धस्ततश्च वासुदेवसाहाय्येन तृणनिर्मितरज्ज्वा वंशखण्डान् बद्ध्वा तरण्डं निर्मितवान् । ततो द्वावपि ऊर्ध्वप्रवाहे महता परिश्रमेणाऽपरं तीरं प्राप्तौ ।
"किमर्थं भवान् कुठारमेनमानीतवान् ?' – आश्चर्येण सिद्धार्थः पृष्टवान् । वासुदेवेनोक्तं – 'आवयो कायाश्चालनदण्डः
१३८