________________
एते गुणास्ते नाऽऽसन् ये तं बालकं समाकृषेयुर्जयेयुर्वा । एष पिता तं यदीदृशे शीर्णे कुटीरेऽवासयत् तदपि तस्मिन् निर्वेदमजनयत्, तथा यत् स तस्याऽविनयं स्मितेनोदतरत्, प्रत्येकमपमानं सौजन्येन, प्रत्येकं दुर्वृत्तिं च प्रेम्णा प्रत्यभावयत् - तद् हि तस्मै बालाय 'वृद्धशृगालस्य गॉतमं कपटं' प्रतिभाति स्म । यदि सिद्धार्थस्तं बालकं निरभसिष्यताऽपीडयिष्यच्च तदा तत् तस्मै अधिकमरोचिष्यत ।।
अन्ते च, तद्दिनमपि समागतं यदा सिद्धार्थपुत्रस्तत् कथितवान् यत् सर्वं तन्मानसे आसीत्, इदानीं स प्रकटं पितुर्विरोध कृतवान् । तच्चैवं जातं – पित्रा स आदिष्टः काष्ठखण्डानानेतुम् । किन्तु स कुटीराद् बहिर्नैव गतवान् । स तत्रैव स्थित्वोद्धततया सकोपं च भूमि पादतलेन प्रहृतवान्, मुष्टिं च बद्ध्वा द्वेष तिरस्कारं च प्रदर्शितवान् । 'भवान् स्वयमेव काष्ठखण्डान् आनयतु' - स आवेशेनोक्तवान् । 'नाऽहं भवतः प्रेष्यो दासो वा । अहं जानामि यद् भवान् मां नैव ताडयति, भवतः साहसमेव नास्ति तदर्थम् !, एवं सत्यपि भवान् सततं दयालुतया मां लालयन् मयि हीनभावं जनयति । भवान् हि मामपि भवादृशं कर्तुमिच्छति - धर्मनिष्ठं, सज्जनं, धीरं च । किन्तु, केवलं भवन्तं पीडयितुमेवाऽहं कदाचित् यदि परं चौरो घातको वा भविष्यामि न पुनर्भवादृशः । अहं भवन्तं धिक्करोमि । भवान् नास्ति मे पिता यद्यपि भवान् शतशो मम मातुः प्रियतमोऽपि स्यात् !' ।
एवं च दुःख-सन्ताप-कोपाकुलः स क्रोधावेशपूर्णान् शब्दान् स्वपितुः पुरत उद्गीर्य बहिः कुत्रचित् पलायितः, ततश्च रात्रावेव पुनरागच्छत् ।
द्वितीयदिने प्रभात एव सोऽदृश्यो जातः । तेन सह, यस्मिन् द्विवर्णे करण्डके तौ द्वौ नाविको भाटकतया प्राप्तं धनं
१३७