________________
तारया सहाऽन्यांश्च जनान् वृक्षात् पतद्भिः पर्णैः सह तुलितवान् आसीत्, । एवं सत्यपि स तस्याः शब्देषु स्थितमुपालम्भमनुभूतवानासीत् । एतत् तु सत्यमेवाऽऽसीत् यत् सः, स्वस्याऽपि विस्मरणं येन भवेत् तादृशं प्रेम, कस्याऽपि विषयेऽनुभूतवान् नाऽऽसीत् । एतत् कर्तुं स सर्वथाऽसमर्थ आसीत्, तदैव च तस्यैतत् प्रतिभातं यत् स्वस्याऽन्येषां च सामान्यजनानां मध्येऽयमेव महान् विशेषोऽस्ति इति ।
किन्तु, इदानीं, यदारभ्य तस्य पुत्र इहोषितवान् तदारभ्य, सोऽपि दुःखं स्नेहं चाऽनुभवन् सामान्यजनानामेवाऽन्यतमत्वमभजत् । पुत्रासक्त्याऽन्धीभूय स मूर्खत्वं समाचरन्नासीत् । स्वजीवने अतिचिरेणाऽपीदानीं सोऽत्युत्कटमपूर्वं च मनोभावमनुभवन्नासीत् । यद्यप्यनेन भावेन सोऽतिदारुणं सन्तापमनुभूतवान् तथाऽपि स इदमप्यनुभूतवान् यत् तस्य सत्त्वमनेन किञ्चिदिवोच्छ्रितं, किञ्चिदिव नवीभूतं समृद्धतरं च जातमस्तीति ।
स जानाति स्मैव यदिदं प्रेमैषा चाऽन्धाऽऽसक्तिः स्वपुत्रविषयिकी हि मूलतया मानवीय संवेदनमस्ति, एतदेव च संसारोऽस्ति खलु ! सर्वथा संक्षुब्धं गभीरजलस्रोतः । परन्तु समकालमेव सोऽनुभूतवान् यदिदं सर्वथाऽसारं तु नास्त्येव, अस्याऽप्यावश्यकता त्वस्त्येव, तथैतदपि निजप्रकृतेरेवोद्भूतमस्ति । एतत् संवेदनं, एषा पीडा, एतानि मौाणि चाऽपि ह्यनुभवितव्यान्येव खलु ! ।
एतावता च, तस्य पुत्रस्तस्य मूर्खताः समलोकयत्, तं प्रयतमानं नैव न्यवारयत्, प्रकृत्यैव च विनीतं तं नैवाऽगणयत् । पितरि तादृशं न किञ्चित् तेन दृष्टं येन स आकृष्टो भवेत् यस्माद् वा स भयमनुभवेत् । तस्य पितैष एकः सुजनः, एकः सदयः सज्जनः, एको धार्मिको मनुष्यः, पवित्रश्च जन आसीत् - किन्तु,
१३६