________________
किं वा तस्य सत्यान्वेषणं तं समरक्षत् ? कः पिता कतमो वा गुरुस्तं स्वच्छन्दतया जीवनं जीवन्तं, जीवनं दोषैर्मलिनीकुर्वन्तं, स्वं पापभरेण पूरयन्तं, विषस्य कटु पानं पिबन्तं, प्रान्ते च स्वयमेव स्वीयं पन्थानमन्वेषयन्तं च न्यवारयत् ? किं भवांश्चिन्तयति यत् कश्चनैतस्मात् क्रमाद्रक्षितः स्यात् ? यदि परं भवतो लघुपुत्रः, यतो भवांस्तं दुःखेभ्यः क्लेशेभ्यो मोहाच्च रक्षितुमिच्छतीत्यतः ? नैव सिद्धार्थ ! नैव, यदि भवान् स्वपुत्रस्य कृते दशवारमपि मृत्वा जन्म धारयिष्यति तथाऽपि तस्य नियतिमणुमात्रमपि परावर्तयितुं नैव शक्ष्यति !' ।
वासुदेवो ह्येतावन्मात्रं न कदाप्युक्तवानासीत् । सिद्धार्थस्तस्योपकारं मत्वा दुःखितहृदयेन कुटीरं प्रविशत्, किन्तु निद्रातुं शक्तो नाऽभवत् । स्वयमचिन्तितमज्ञातं च न किमपि वासुदेवेन कथितमासीत् । किन्तु ज्ञानादपि पुत्रप्रेम, पुत्रासक्तिः, पुत्रवियोगभयं च बलवत्तरमासीत् । न हि कदाचित् स कस्यचित्कृते स्वहृदयमेवं हारितवानासीत्, न हि कञ्चनाऽपि स एवंरीत्याऽन्धीभूय, दुःखीभूय, हताशीभूयाऽथाऽपि च सुखितम्मन्यः प्रीतवानासीत् ।
स स्वमित्रस्योपदेशं स्वीकर्तुं नैवाऽशक्नोत्, स्वपुत्रं च परिहर्तुं शक्तो नैवाऽऽसीत् । स स्वमाज्ञापयितुं स्वपुत्रमन्वज्ञापयदिव, स्वं प्रत्यविनीतं च भवितुमप्यन्वमन्यतेव । स तूष्णीभूय धैर्येण प्रतीक्षामकरोत्, प्रत्यहं च मैत्र्या धैर्यस्य च मूकं युद्धं प्रारभत । वासुदेवोऽपि मौनतया प्रतीक्षामकरोत्, सस्नेहं सद्भावेन क्षमाशीलतया च । द्वे अपि मित्रे धैर्यस्य तु स्वामिनावास्ताम् ।
एकदा, यदा बालकस्य मुखं तं कमलामस्मारयत् तदा, सहसैव सिद्धार्थो बहुकालपूर्वं कमला तं यत्कथितवत्यासीत् तदस्मरत् । 'भवान् न कस्मिंश्चिदपि स्निह्येत् कदाऽपि' इति सा तं कथितवती, सोऽपि च तत् स्वीकृतवानाऽऽसीत् । स स्वं
१३५