________________
ततश्च भिन्नतया स्पन्दमाने स्तः ? किं स एतादृशेनाऽऽचरणेनाऽधिकं निरुद्धो दण्डितश्च न भवेत् खलु ?' ।
व्यग्रः सिद्धार्थो भुवं विलोकयन् मन्दस्वरेण पृष्टवान् – 'तहि मया किं वा कर्तव्यम् ?'
वासुदेवेनोक्तं – 'तं नगरे नीत्वा तन्मातृगृहं प्रापयतु । तत्र सेवकाः स्युरेव । तानस्य सेवायां नियोजयतु । यदि च ते न स्युस्तदा तं शालायां प्रवेशयतु, न च शिक्षणार्थं किन्तु तत्राऽन्ये बाला बालिकाश्च स्युर्यैः सहाऽयं सम्पर्कं कुर्यात् स्वीयं विश्वं च परिचिनुयात् । किं भवताऽत्राऽर्थे कदाऽपि चिन्तितं वा ?'
'भवान् मे मनोगतं सर्वमपि जानात्येव' – सिद्धार्थः सखेदमुक्तवान् । 'अहं बहुश एतदर्थे चिन्तितवान् अस्मि । किन्तु, य ईदृशः कठिनहृदयोऽस्ति स जगति कथं व्यवहरिष्यति ? किं स श्रेष्ठम्मन्यो न भविष्यति? किं स भौतिकसुखे समृद्धावैश्वर्ये च भ्रष्टो नष्टश्च न भविष्यति? कि स स्वपितृसमाचरितान् दोषान् न पुनरावर्तयिष्यते ? एवं च स किं संसारे निमग्नो न भविष्यति?'।
वासुदेवः पुनरपि स्मितवान् । स मृदुतया सिद्धार्थस्य स्कन्धे हस्तं स्थापयित्वोक्तवान् – 'एतत् सर्वं नद्यै पृच्छतु मित्र ! तदुक्तं शृणोतु ततश्च हसतु ! किं सत्यमेव भवान् चिन्तयति यद् भवता समाचरितान् दोषान् भवत्पुत्रो नैव समाचरिष्यति ? किं ततो भवांस्तं संसाराद् रक्षितुं प्रभविष्यति ? कथम् ? किमनुशासनेन ? प्रार्थनाभिः ? उपदेशैर्वा ? प्रियमित्र ! भवतैवाऽत्र कदाचित् मे कथितां ब्राह्मणपुत्रस्य सिद्धार्थस्य बोधप्रदां कथां किं भवान् विस्मृतवान् किल ? श्रमणमपि सिद्धार्थं संसारात् पापाल्लोभान्मौर्थ्याच्च को वा रक्षितवान् ? किं तस्य पितुर्धर्मनिष्ठा ? किं तस्य गुरोरुपदेशाः ? तस्य स्वीयो बोधः ?
१३४