________________
अहं तदर्थमेव परिस्थित्या युध्यमानोऽस्मि, तस्य हृदयस्याऽन्तः प्रवेष्टुं प्रयत्नं कुर्वन्नस्मि । अहं तं प्रेम्णा धैर्येण च जेष्यामि । नद्यप्येषा तेन सहैकदा संवादं करिष्यति यतः सोऽपि नद्यैवाऽऽहूतोऽस्ति ।
वासुदेवस्य स्मितमितोऽपि स्निग्धं जातम् । 'आम्, सोऽपि नद्याऽऽहूतोऽस्ति, सोऽपि च शाश्वतजीवने समभागी वर्तते । किन्तु भवान् जानाति यत् किमर्थं स आहूतोऽस्ति ?, केन वा मार्गेण ?, कस्मै वा कार्याय ?, कैर्वा दुःखैः सह ? तस्य दुःखानि स्वल्पानि न भविष्यन्ति । तस्य हृदयं हि दर्पयुतं कठोरं चाऽस्ति । स प्रायो बहु सहिष्यते, बहून् दोषान् समाचरिष्यति, बह्वन्याय्यं सेविष्यते, बहूनि च पापानि करिष्यति । कथयतु मां मित्र !, किं भवान् स्वपुत्रं समनुशासयन्नस्ति ? किं स भवदाज्ञाकारी वर्तते ? किं भवांस्तं ताडयति दण्डं करोति वा?' ।
'नैव वासुदेव ! अहमेतेषामेकतमदपि नैव करोमि' ।
'आम्, अहं जानामि । भवान् तेन सह कठोरो न भवति, तं नैव दण्डयति नाऽपि चाऽऽज्ञापयति – यतो भवान् चिन्तयति यन्मृदुता हि कठोरत्वतः प्रबला, प्रेम हि बलात्कारादपि बलवत्, जलं हि पाषाणात् सबलमिति । शोभनमस्त्येतत् । अहं प्रशंसामि भवन्तम् । किन्तु चिन्तयतु भवान् यत् कठोरत्वानाचरणं दण्डकारणं च किं भवत्पक्षे दोषो नास्ति वा? भवतः प्रेम तत्कृते बन्धनं तु न भवति खलु ? स्वसौजन्येन धैर्येण च भवान् तं लज्जितं कुर्वन् प्रत्यहं तस्य कृते जीवनमधिकं दुष्करं तु नैव कुर्वन्नस्ति खलु ? किं भवान् एनमुद्धतं दुर्ललितं च बालकं, द्वाभ्यां वृद्धाभ्यां कदलीखादकाभ्यां सहाऽस्मिन् कुटीरे, प्रसभं वसितुं न नियोजयन्नस्ति खलु, ययोः कृते ओदनमपि विशिष्टभोजनं भवति, ययोर्विचारास्तत्समा नैव भवितुमर्हन्ति, ययोर्हृदये वृद्ध शान्ते