________________
शान्त्योः स्थाने केवलं दुःखं क्लेशश्चैव प्राप्तौ । एवं सत्यपि केवलं पुत्रस्नेहादेव स पुत्रं विना प्राप्यमाणे सुख- शान्ती परित्यज्य पुत्रस्नेहेन प्राप्यमाणी दु:ख- क्लेशावेव स्वीकृतवान् ।
सिद्धार्थपुत्र उटजे तिष्ठति स्मेति द्वावति वयस्को कार्यविभागं कृतवन्तौ । वासुदेवो नौकासम्बन्धिनं सर्वं कार्यं करोति स्म, सिद्धार्थश्च स्वपुत्रेण सह स्थितः सन् कुटीरे क्षेत्रे च कार्यं करोति
स्म ।
बहून् मासान् यावत् सिद्धार्थो धैर्येण प्रतीक्षितवान्, आशंसयाऽनया यत् – कदाचित्त्वयं बालो ममा ISनुकूलो भविष्यति, मम स्नेहं स्वीकरिष्यति पुनश्च मे प्रत्यर्पयिष्यति । एतच्च बहुकालं यावत् वासुदेवो निरीक्षितवांस्तूष्णींभूय । यदा चैकस्मिन् दिने पुत्रः स्वपितरं कोपेनाऽपमानं कृत्वा दुःखितं कृतवान् द्वे च भाजने भञ्जितवांस्तदा वासुदेवः सायाह्ने स्वमित्रमेकतो नीत्वा कथितवान् 'क्षम्यतां भोः !, किन्त्वहं भवते मित्रत्वेन कथयन्नस्मि । अहं पश्यामि यद् भवान् चिन्ताकुलो दु:खितश्चाऽस्ति । भवतः पुत्रो भवन्तं मां चाऽपि खेदयन्नस्ति । बालः पक्षी ह्ययं भिन्नजीवनेन भिन्ननीडेन चाऽभ्यस्तोऽस्ति । भवानिव सोऽत्र वैभवान्नगराच्च वैराग्येण निर्वेदेन वा नैव समागतोऽस्ति, तेनैतज्जीवनं बलाज्जीवितव्यमापतितमस्ति । मया नद्यै अप्येतदर्थं पृष्टमस्ति, बहुवारम् । किन्तु सा मामुपहसितवती भवन्तं चाऽपि । साऽऽवयोर्मूर्खत्वं दृष्ट्वोच्चैर्हासं कृतवती । भोः ! जलं जले एव गमिष्यति, यौवनं च यौवने । भवतः पुत्रोऽत्र कदाऽपि सुखी नैव भविष्यति । भवानपि नौ पृच्छतु शृणोतु च तत्कथनम्' ।
I
खिन्नः सिद्धार्थस्तस्य करुणार्द्रं मुखं दृष्टवान्, तत्र च प्रभूताः प्रशस्ता वलय आसन् । स मृदुतयोक्तवान् – 'कथमहं तस्मात् पृथग् भवेयम् ? इतोऽपि मे समयं ददातु प्रियवयस्य !,
१३२