________________
६. पुत्रः भीतो रुदंश्च बालकः स्वमातुरन्तिमसंस्कारमकरोत् । ततः सिद्धार्थे तं पुत्रतयाऽऽह्वयति वासुदेवकुटीरे वसनार्थं चाऽऽमन्त्रयति स व्याकुलेन विषण्णेन च मनसा तमवलोकितवान् । दिनानि यावत् म्लानमुखः स स्वहृदयभावान् निरुध्य, स्वीयभाग्येन सह कलहं कुर्वन् युध्यमानश्चेव शून्यावलोकनं कृतवान् ।।
तस्य मनःस्थिति विजानन् सिद्धार्थस्तमेकाकिनं विमुक्तवान्, यतः स तस्य शोकं समाद्रियते स्म । ‘स मां नैव जानाति, जनकत्वेन च मयि स्नेहमपि नैव धारयितुं शक्तः' - इति सिद्धार्थो जानाति स्म । क्रमशः स एतदपि दृष्टवान् अनुभूतवांश्च यदेकादशवर्षीयोऽयं बालो मातुरतिलालनादूषितोऽस्ति धनिकजनोचितरीतिभिश्च संवर्धितोऽस्ति, तस्य चोत्तमाहारस्य कोमलशय्यायाश्चाऽभ्यासोऽस्ति तथा झटित्येवाऽत्रत्येऽपरिचिते दारिद्य्पूर्णे च परिसरे सन्तोषेण स्थातुं नैव शक्त आसीत् । अतः स तं नाऽनुशास्ति स्म नाऽपि च कुत्रचिदर्थे निर्बन्धं करोति स्म । प्रत्युत तदर्थमुत्तममाहारजातं रक्षति स्म, तस्य च बहूनि कार्याणि स्वयमेव कुरुते स्म । स चिन्तयति स्म यदहं शनैः शनैः सौहार्द-पूर्णव्यवहारेण चाऽस्य प्रेम सम्पादयिष्ये - इति ।।
__ यदा बालस्तत्पावें समागतस्तदा सिद्धार्थः स्वं समृद्धं सुखिनं चाऽमन्यत, किन्तु गच्छता कालेनाऽपि, यदा बालोऽयं सौहार्दरहितः प्रतीपश्चैवाऽवस्थितः, यदा स औद्धत्यमवज्ञां च समाचरितवान्, कार्ये उत्साहं नैव दर्शितवान्, वृद्धौ प्रति विनयं नैव धारितवान्, वासुदेवस्य च वृक्षेभ्यः फलानि चोरयित्वा खादितवांस्तदा सिद्धार्थेनस्पष्टमवबुद्धं यत् पुत्रेण सह सुख
१३१