________________
२. श्रमणैः सह तस्मिन् सायङ्काल एव सिद्धार्थो गोविन्दश्च श्रमणैः सह मीलितौ । ततस्तौ श्रमणेभ्यस्तैः सह वासार्थं दीक्षादानार्थं च विज्ञप्तिं कृतवन्तौ । श्रमणा अपि सहर्षं तयोविज्ञप्तिं स्वीकृतवन्तः ।
सिद्धार्थेन स्वीयवस्त्राणि कस्मैचिद् दुर्गतब्राह्मणाय प्रदत्तानि, स्वयं च केवलं कटिवस्त्रमस्यूतं गैरिकवर्णं च प्रावारमधारयत् । प्रत्यहमेकवारमेव भुङ्क्ते स्म सः, न पुनः कदाऽप्यग्निपक्वं भुङ्क्ते स्म । कदाचित् स पक्षं यावदुपवासान् कदाचिच्च मासोपवासमपि करोति स्म । तस्य देहान्मेदो-मांसादिकं व्यलीयत । तस्य कृशास्वङ्गलिषु नखा दीर्घत्वमभजन् चिबुके च शुष्कं रूक्षं च श्मश्रु आविर्भूतम् । विलक्षणाः स्वप्नास्तस्य विस्फारितनेत्रपटले प्रतिफलन्ति स्म । स्त्रीणां दर्शनेन तस्य दृष्टिहिमशीतला भवति स्म । नगरवीथ्यां च पर्यटत उत्तमनेपथ्यान् जनान् दृष्ट्वा तस्य मुखमोष्ठौ चाऽवधीरणया वक्रीभवन्ति स्म।
स बहून् जनान् पश्यति स्म – वाणिज्यरतान् वणिजः, मृगयासक्तान् राज्ञः, मृतमनुशोचतस्तत्स्वजनान्, देहविक्रयं कुर्वतीर्वेश्याः, रुग्णानुपचरतो वैद्यान्, वपनादिमुहूर्तानि निर्णयतो मौहूर्तिकान्, परस्परं स्निह्यतः प्रेमिणः, स्वापत्यानि लालयन्तीर्जननीश्चेत्यादीन् – किन्तु चिन्तयति स्म यदेकतमोऽप्येतेषां दृष्टिपातमपि नाऽर्हति, यतः सर्वमप्येतद् दुर्गन्ध्येवाऽस्ति, उच्छलदसत्यस्य गन्धेन भृतम् । सर्वत्रैन्द्रियिकविषयाणां तुच्छसुखानां विनश्वरसौन्दर्यस्य चेन्द्रजालमेव प्रसृमरमास्ते । सर्वेऽपि सुनिश्चितं विनाशं प्रत्येव धावन्तः सन्ति । विश्वमेतत् कटुकं जीवनं च दुःखमेवाऽऽस्ते ।।
सिद्धार्थस्यैयकमेव ध्येयमासीत् – 'शून्यत्वप्राप्तिः' -
१४