________________
तृष्णायाः शून्यत्वम्, इच्छायाः शून्यत्वं, स्वप्नानां शून्यत्वं, रागद्वेषयोहर्ष-शोकयोश्च शून्यत्वं, प्रान्ते चाऽहङ्कारस्य लयः । ततश्च शून्ये हृदये समुद्भूतायाः परमशान्तेरनुभवनं शुद्धतमान्तःकरणधारायाश्चाऽनुभवनं तस्य परमं लक्ष्यमासीत् । यदा ह्यात्मा सम्पूर्णतया जितो भवेत्, अहङ्कारः समूलनाशं नश्येत्, सर्वेऽपि कामास्तर्षाश्चोपशान्ता भवेयुस्तदैवाऽन्तिमोऽन्तरतमोऽन्तरात्मा - यो हि जीवनस्याऽद्यावध्यप्रकटं सर्वोच्चं च सत्यमासीत् स - उद्घटितो भवेत् । एतदेव मनसिकृत्य स श्रामण्यमङ्गीकृतवानासीत् ।
सिद्धार्थो निःशब्दतया प्रचण्डे सूर्यातपे पीडां तृषं च सहमानो तिष्ठति स्म – तावत् तिष्ठति स्म यावत् तस्य पीडातृषोरनुभूतिरेवोपशम्येत । एवमेव स वर्षति धाराबद्धं धाराधरे तिष्ठति स्म । तस्य गलद्विन्द्वार्द्रमस्तकाज्जलं स्तब्धयोस्तदंसयोस्तदूर्वोस्तत्पादयोश्च पतत् तदङ्गानि जडीकरोति स्म । किन्तु स तत्र तावत् तिष्ठति स्म यावत् तदङ्गानि निष्प्रकम्पाणि स्थिराणि च न भवन्ति ।
तथैव स कण्टकेष्वपि शान्ततया निविशति स्म । तस्य त्वचि कण्टकवेधनेन तीव्रवेदना भवति स्म, ततो रक्तं परिस्रवति स्म, व्रणानि च भवन्ति स्म । किन्तु यावद् रक्तस्त्रावः स्वयमेव नोपरमति, कण्टकवेधनं नोपशाम्यति शल्यानां वेदना च न निवर्तते तावत् तत्रैव कण्टकेषु स निष्प्रकम्पतया दृढतया चाऽधितिष्ठति स्म ।
एवंरीत्या शरीरं साधयित्वा स आसनसिद्धिमपि कृतवान् । ततः स प्राणायाम प्राणधारणं प्राणस्थिरीकरणं च शिक्षितवान् । तेन सहैव स हृदयस्पन्दनान्यल्पीकर्तुं निरोद्धं चाऽपि शिक्षितवान् । स तानि स्पन्दनानि तथाऽल्पयति स्म यथा तानि विरलतयैव