________________
श्रोतुं शक्येरन् ।
अथ च श्रमणवृद्धान्मार्गदर्शनं प्राप्य श्रमणतन्त्रानुसारं मनोनिग्रहमात्मसंयमं ध्यानं चाऽप्यभ्यसितवान्। स परकायप्रवेशमपि साधितवान् । अन्यदैको बको वंशपादपे उड्डीयाऽऽगतः । तं दृष्ट्वा सिद्धार्थस्तच्छरीरे स्वात्मानं प्रवेशितवान् । तेनैव शरीरेण स वनेषु पर्वतेषु चोडीनवान्, बकवत् तटाकतीरेषूपतिष्ठन् मत्स्यान् खादितवान्, कदाचिद् बकक्षुधं सोढवान्, तद्भाषया भाषितवान् तन्मरणेन च मृतोऽपि ।
अथाऽन्यदा मृतमेकं शृगालं नदीतटे पतितं दृष्ट्वा तत्राऽपि स प्रविष्टवान् । ततो मृतशृगालो भूत्वा तट एव निपतितवान्, शोथं प्राप्तवान्, कुथितवान्, गलितवान्, तरक्षुभिश्च तस्याऽङ्गानि विघटितानि गृद्धैश्च भक्षितानि, प्रान्ते सोऽस्थिपञ्जरं भूत्वा ततश्च चूर्णीभूय वातावरणे सम्मिश्रणं प्राप्तवान् । एवं च सिद्धार्थस्याऽऽत्मा मरणं शटनं गलनं भस्मीभवनं चाऽनुभूय जीवनचक्रस्य दुःखपूर्णं परिभ्रमणमपि चाऽनुभूय स्वदेहे प्रतिनिवृत्तः ।
सिद्धार्थः, यत्र भवभ्रमणं समाप्तं भवति, यत्र कार्यकारणभावः शून्यतां प्राप्नोति यत्र च दुःखविहीना शाश्वतता प्रारभ्यते तादृशे बिन्दावागत्य, मृगयार्थमागतो व्याध इव दर्यां, नवतृष्णया प्रतीक्षारतः स्थितवान् ।
स स्वीयमिन्द्रियगणं दमितवान्, स्मृति विनाशितवान्, शरीरं परित्यज्य च सहस्रशो विविधान् रूपान् धृतवान् । स पशूभूय, कुणपीभूय, अश्मीभूय, काष्ठीभूय, वारीभूय चाऽपि पुनरुज्जागरणं प्राप्तवान् । प्रत्येकं सूर्योदये चन्द्रोदये च स पुनः स्वत्वं प्राप्तवान्, पुनरपि भवचक्रे दोलायितवान्, तृष्णया पीडितो भूत्वा, स्वपुरुषार्थेन तां तृष्णां निगृहीतवान् पुनश्च नूतनां तृष्णामनुभूतवान् ।
१६