________________
श्रमणानां सहवासात् स बहुतरं शिक्षितवानासीत् । स स्वात्मलोपनस्य प्रभूतान् प्रकारान् विज्ञातवान् । स स्वैच्छिक - दुःखसहनेन पीडाजयेन चाऽऽत्मनिग्रहाध्वगोऽभवत् । एवं क्षुधाजयेन तर्षजयेन श्रमजयेन च स स्वनिग्रहं साधितवान् ।
स ध्यानसाधनया मनसः सर्वसङ्कल्पशून्यकरणेन चाऽपि स्वनिग्रहं साधितवान् । एवं चाऽनेकान् मार्गान् स साधितवान् । स सहस्रशः स्वविलोपनं कृतवान्, नैकदिनानि यावच्च शून्यत्वस्थितिं प्राप्तुं शक्तवान् ।
किन्तु, यद्यपि सर्वेऽप्येते मार्गास्तं शून्यीभवितुं समाधौ च स्थातुं नितरां सहायका भवन्ति स्म, तथाऽपि पर्यवसाने तु ते तं पुनरपि पूर्वतनस्थितावानयन्ति स्म । सहस्रशः सिद्धार्थः स्वशरीरं त्यक्त्वा बहिर्गतवान्, शून्यत्वं प्राप्तवान्, पशु-पक्षिषु पृथिवी - वनस्पत्यादिषु च स्वात्मानं प्रवेशितवांश्चाऽऽसीत्, तथाऽपि ततः प्रतिनिवर्तनं स्वशरीरे पुनरागमनं वा त्वपरिहार्यमेव भवति स्म । तन्मुहूर्तमनिवार्यमेवाऽऽसीत् यदा स दिवा वा रात्रौ वा छायायां वाऽऽतपे वा वर्षासु वा स्वं पुनरपि सिद्धार्थतया देहात्मभावेनाऽनुभवेत्, पुनरपि च जीवनचक्रस्य दारुणां दुःसहां च यातनामधिषहेत ।
अथाऽऽसीद् गोविन्दः, यस्तस्यैव प्रतिच्छायीभूतः सन् तस्यैव च पथि व्रजन् तत्तुल्यानेव प्रयत्नान् करोति स्म । तावुभौ परस्परं साधनाया अभ्यासस्य च प्रयोजनं विना विरलतयैव भाषेते स्म । कदाचित् तौ सहैव ग्रामेषु स्वकृते गुरूणां च कृते भिक्षाग्रहणार्थं गच्छतः स्म ।
अन्यदा तादृश एव भिक्षाटनकाले सिद्धार्थो गोविन्दं पृष्टवान् “भोः ! किमावां काञ्चित् प्रगतिं प्राप्तौ वा ? आवाभ्यां किं पूर्वनिर्धारितं ध्येयं प्राप्तं वा ?"
१७
—