________________
गोविन्दोऽवदत् - "आवाभ्यां सुबहु शिक्षितमस्ति, इतोऽपि च शिक्षमाणौ स्वः । भवांस्तु महान् श्रमणो भविष्यति, सिद्धार्थ ! । भवता प्रत्येकं पाठो विद्या च शीघ्रतयाऽधिगताऽस्ति । वृद्धश्रमणा बहुशो भवन्तं प्रशंसन्ति । कदाचिद् भवानपि पवित्रो महापुरुषो भविष्यति' ।
सिद्धार्थेनोक्तं - "भोः ! भवदुक्तं मे तथ्यं न प्रतिभाति । श्रमणानां पार्वे यदहमेतावत्पर्यन्तं शिक्षितवानस्मि तत्सर्वं त्वहं मदिरागृहे वारवधूगृहे द्यूतगृहे वाऽऽगतानां धूर्तानां शौण्डानां च मध्ये स्थित्वाऽपि सरलतया शीघ्रतया चाऽशिक्षिष्ये" ।।
गोविन्द उक्तवान् – “सिद्धार्थ उपहसति ननु ! ध्यानं प्राणायामाः क्षुत्तुषोः पीडायाश्चाऽसंवेदनशीलता - इत्येतत् सर्वं कथं वा भवान् तेषां दुरात्मनां पार्वात् अशिक्षिष्यत ?"
सिद्धार्थः स्वगतोक्तिं कुर्वाण इवाऽतीव मृदुतयोक्तवान् - "किमस्ति ध्यानं? किं देहशून्यताऽस्ति ? किं वाऽस्ति प्राणधारणं? किमस्ति वा तपःकरणम् ? सर्वमप्येतत् स्वस्मात् पलायनमस्ति, स्वल्पकालमपक्रमणमस्त्येतद् आत्मवेदनातः, तथाऽस्तीत्वरिकमुपशमनमेतत् स्वस्य पीडायाः" ।
"एकः शकटवाहकोऽपि मदस्थानं गत्वाऽऽसवं नालिकेरजलं च स्वल्पकालीनमौषधमिव पीत्वा स्वस्मात् पलायते । ततः स न स्वचेतनामनुभवति, न जीवनस्य दुःखेन दुःखीभवति । केवलं स स्वल्पकालमुपशमनमनुभवति । मद्यचषकाणामुपरिष्टात् गाढनिद्रामग्नः सः, सिद्धार्थ-गोविन्दाभ्यां महापरिश्रमेण दीर्घकालीनयोगसाधनया तपश्चरणेन च साधितया देहमुक्तावस्थया या शून्यत्वस्थितिः प्राप्ता, तां, सुतरामनुभवति" । ___गोविन्द उदतरत् – “वयस्य ! भवानेवं वक्तुमर्हति, तथाऽपि भवान् सुतरां जानाति यन्नाऽस्ति भवान् शकटवाहको
१८