________________
न वा कश्चित् श्रमणो मद्यपोऽस्ति । मद्यपस्तु जीवनात् पलायनमवश्यं प्राप्नोति, सोऽवश्यं स्वल्पकालीनां विश्रान्तिं निर्वृतिं चाऽप्यनुभवति, किन्तु यदा तस्य भ्रान्तिर्निवर्तेत यदा च स भानं प्राप्नुयात् तदा सर्वमपि यथावत् साक्षात्करोति । न तस्य विवेको वर्धते न च बोधः, नाऽपि च स कञ्चिदुष्कर्षं विकासं वा साधयति" ।
सिद्धार्थः सस्मितमुक्तवान् "नाऽहं जानामि भोः ! यदहमपि कदाऽपि मद्यपो भविष्यामि न वा । तथाऽपि सिद्धार्थोऽहं साधनया ध्यानेन च केवलं स्वल्पकालीनां विश्रान्तिमनुभवामि । ततश्चाऽहं प्रज्ञातो निर्वाणाच्च तथा दूरीभूतोऽस्मि यथा गर्भस्थः कश्च भ्रूण: । गोविन्द ! एतावदेवाऽहं जानामि" ।
अथाऽन्यदाऽपि सिद्धार्थो गोविन्देन सह गुरूणां गुरुभ्रातॄणां च कृते भिक्षार्थं व्रजन् कथितवान् – " ननु गोविन्द ! किमावां सन्मार्गे प्रस्थितावुतोन्मार्गे ? किमावाभ्यां किञ्चिदिव ज्ञानं प्राप्तं वा ? किमावां निर्वाणासन्नौ स्वो वा ? उत भ्रमणाद् निवर्तितुं यतमानावावां वर्तुलेष्वेव परिभ्राम्यावः ?"
गोविन्द उक्तवान् "आवाभ्यां पर्याप्तं शिक्षितमस्ति सिद्धार्थ ! । यद्यपीतोऽपि बहु शिक्षणीयं वर्तते तथाऽपि नाऽऽवां वर्तुलगतौ स्वः, आवयोर्गतिरूर्ध्वमुखैवाऽस्ति । अथ चाऽयं मार्ग एव चक्राकारः, किन्तु तस्य कियन्त्यपि सोपानान्यावाभ्यामतिक्रान्तानि'' ।
सिद्धार्थोऽपृच्छत् – “अस्माकं पूज्याचार्यः श्रमणज्येष्ठो भवते कियद्वयाः प्रतिभाति भोः !' ?
गोविन्देनोक्तं – “मन्ये यद् ज्येष्ठः षष्टिवर्षदेशीयोऽवश्यं
“षष्टेर्वर्षाणामायुस्तथा
स्यात्" ।
—
तथा च सिद्धार्थ उक्तवान्
१९
—