________________
ऽप्यद्ययावन्निर्वाणं नैव प्राप्तम् । स सप्ततिवर्षीयो भविष्यति, अशीतिवर्षीयोऽपि; तथैव भवान् अहमपि च तद्वदेव च वृद्धौ भविष्यावः, शुभानुष्ठानानि तपो ध्यानं च करिष्यावः, किन्तु निर्वाणं नैव प्राप्स्यावः, न स प्राप्स्यति न वाऽऽवाम् । गोविन्द ! अहं दृढ मन्ये यत् श्रमणानामेतेषामेकतमोऽपि प्रायशो निर्वाणं न प्राप्स्यति । आश्वासनानि त्ववश्यं प्राप्नुयाम, आत्मवञ्चनार्थं युक्तीरपि शिक्षेमहि, किन्तु यत् सारतत्त्वमपेक्षितमत्र - सन्मार्गरूपं तन्नैवोपलभामहे' ।
“मा मैवं त्रासदायकान् शब्दानुच्चरतु सिद्धार्थ !" “गोविन्दोऽवदत् – “तत् कथं वा शक्यं यद् बहूनां ब्राह्मणानां, बहूनां विदुषां बहूनां भगवतामुग्रतपस्विनां श्रमणानां बहूनां सत्यान्वेषकाणामात्मार्थिनां पवित्रपुरुषाणां च मध्यादेकतमोऽपि सन्मार्गं नैव प्राप्स्यति ?"
सिद्धार्थो व्यथितेनोपहासमिश्रितेन स्वरेण मृदुतया सदुःखमुक्तवान् – “अचिरेणैव, गोविन्द ! भवन्मित्रं श्रमणानां मार्गं त्यक्ष्यति, यत्र स भवता सहाऽद्ययावत् प्रस्थितः । अहं तीव्रतृषा पीड्ये गोविन्द !, किन्त्वस्मिन् दीर्घे श्रमणपथे मे तृड् नैव क्षीणा जाता न वा नहिवद् भूता । अहं ज्ञानप्राप्तौ सदाऽप्यतृप्तोऽस्मि ममाऽस्तित्वं च प्रश्नैरेव पूरितमस्ति । प्रत्येकं वर्षं मया विद्वांसो ब्राह्मणाः पृष्टाः, प्रत्येकमब्दं च मया पवित्रा वेदाः पृष्टाः । कदाचिद् गोविन्द !, तत् तथैव - तुल्यतया प्रशस्यं तुल्यतया चातुर्यपूर्णं तुल्यतया च पवित्रमभविष्यद् यदि मया त एव प्रश्नाः कस्मैचिद् वानराय गण्डकाय वा पृष्टा अभविष्यन् । कोऽपि जनो न किञ्चिदपि शिक्षितुं शक्तः इति बोद्धुं मया सुदीर्घकालो व्ययितोऽस्ति, अथाऽपि च तत् पूर्णतया ज्ञातुं न प्रभवामि" ।
२०