________________
"अत एव दृढतया मन्येऽहं यत्, सर्वेषां सारभूतं तत्त्वं तत् किञ्चिदस्ति यत् शिक्षणात् पाण्डित्याद् वा ज्ञातुं नैव शक्यम् । मित्र ! एकमेव ज्ञानमस्ति यदन्तनिहितं सार्वकालीनं चाऽस्ति, तदस्ति 'आत्मा', यो मय्यपि विद्यते त्वय्यपि विद्यते सर्वेषु च जीवेषु विद्यते । तथाऽहमपि ह्येतद् विश्वसितुमारब्धोऽस्मि यद् आत्मज्ञानस्याऽस्य द्वावेव महाशत्रू - पण्डिताः पाण्डित्यं च" ।
तदा च गोविन्दो मार्गे एव स्तिमित इवाऽवस्थितः, स्वहस्तौ चोन्नीय कथितवान् – “सिद्धार्थ ! ईदृशैर्वचनैर्मा स्वमित्रस्य पीडामापादयतु । सत्यं, भवच्छब्दा मां क्लेशयन्ति । चिन्तयतु भोः ! यद्, यदि त्वदुक्तप्रकारेण शिक्षणं विद्या वा नाऽभविष्यत् तदाऽस्माकं पवित्रवेदानां, ब्राह्मणानां पूज्यतायाः श्रमणानां वा शुचितायाः को वाऽर्थोऽभविष्यत् ? यद्येवं तर्हि सिद्धार्थ ! सर्वेषां वस्तूनां का गतिरभविष्यत्, अस्मिञ्जगति किं वा पवित्रमस्थास्यत् किं च वाऽनय॑मलौकिकं चाऽभविष्यत् ?"
अथो गोविन्दः स्वगतमेव मन्दध्वनिनोपनिषदां सूक्तमेकमुच्चरितवान् -
"कश्चिद् धीरः प्रत्यागात्मानमैक्षत । आवृतचक्षुरमृतत्वमिच्छन् ॥"
सिद्धार्थस्तूष्णीक आसीत् । गोविन्दवचनेषु स चिराय चिन्तितवान् । “आम्", स नतमस्तकः स्थित्वा विचारयन्नाऽऽसीत्, “ननु यदप्यस्मान् पवित्रं भासते ततः किं वाऽवशिष्यते? किं रक्ष्यते किं चोध्रियते ?"
स मस्तकमधुनोत् ।
अथ च द्वयोरपि यूनोः श्रमणैः सह योगाभ्यासं कुर्वतोवर्षत्रयं व्यतीतम् । तावताऽन्यदा नैकस्रोतोभ्यस्ताभ्यां लोकप्रवादरूपेण किंवदन्तीरूपेण च समाचार एकः श्रुतः । एकः कश्चन महात्मा