________________
नाऽस्ति भूयान् भेदः । स्पष्टं वदामि चेद् अहं विचारान् महत्त्वयुतान् नैव मन्ये । उदाहरणार्थं कथयामि – अत्र नाविकरूपेणैको मनुष्य आसीद् यो हि मे पूर्वगामी गुरुश्चाऽऽसीत् । स एकः पवित्रो मानव आसीत् यो वर्षाणि यावत् केवलं नद्यामेव विश्वसितवान् नाऽन्यत्र कुत्रचित् । नद्या ध्वनिस्तेन सह भाषते इति स लक्षितवान् । स तत एव शिक्षितवान्, ध्वनिश्च तमध्यापितवान् पाठितवांश्च । नदी हि तस्य कृते भगवानासीत् । बहूनि वर्षाणि यावदेतदपि नैव ज्ञातवान् स यत् प्रत्येकं वायुः, प्रत्येकं मेघः, प्रत्येकं पक्षी, प्रत्येकं भ्रमरश्चाऽपि समानतयैव दिव्या ज्ञानवन्तो नदीवच्च बोधदानाय समर्था एव । किन्तु यदाऽयं पवित्रो जनो वनं गतवांस्तदा स सर्वमपि ज्ञातवान्, विनैव गुरुं पुस्तकानि च स भवत्तो मत्तश्चाऽप्यधिकतया ज्ञातवान्, यतः स नद्यां पूर्णतया विश्वसिति स्म' ।
गोविन्देन कथितं – 'किन्तु भवान् यं पदार्थं वस्तुरूपेण जानाति स किं वास्तविकस्तात्त्विकश्च ? किं स मायाया भ्रामकं रूपं नास्ति किल ? केवलं प्रतिबिम्बमाभासो वा ? भवतः पाषाणो भवतो वृक्षश्च – किमेतौ वास्तविकौ वा ?'
'एतदपि नास्त्येव मत्कृतेऽधिकक्लेशकरं ननु । यद्येते आभासरूपाः स्युस्तदाऽहमपि तादृगेव, ततश्चैतेषां मम च स्वभावः सदृश एव खलु ! एतदेव तत्त्वं तान् प्रेमार्हान् उपास्यांश्च करोति । एतदर्थमेव चाऽहं तान् प्रीणामि । ममैक: सिद्धान्तोऽस्ति यं ज्ञात्वा भवान् हासमपि करिष्यति । गोविन्द ! ममैवं भाति यदत्र जगति प्रेमैव सर्वथोत्कृष्टः पदार्थः । महतां चिन्तकानां कृते तु जगतः परीक्षणं, तद्व्याख्यानं तस्य तिरस्करणं च महत्त्वयुतं प्रतिभायात् किन्तु मम मतेन तु जगतः प्रेमकरणमेव महत्त्वयुतं न पुनस्तिरस्करणम् । परस्परमप्यस्माकं द्वेषकरणं नैवोचितं किन्तु
१६२