________________
जगतः स्वेषां, सर्वेषामपि च जीवानां प्रेम-स्नेहादरैः स्वीकरणार्थमस्माकं समर्थीभवनमेवोचितं महत्त्वयुतं च' ।
'अहमवबुध्ये तत्, किन्तु भगवता बुद्धेनेदमेव भ्रमो माया वा कथितम् । स कारुण्यं धैर्य क्षमां सहानुभूति - सर्वमप्येतदुपदिष्टवान् न किन्तु प्रेम । सोऽस्माकं जागतिकप्रेमबन्धने पतनान्निषेधितवान्।'
मधुरस्मितं कृत्वा सिद्धार्थेनोक्तं – 'गोविन्द ! अहं जानाम्येव तत् । तथा वयं शब्दानामर्थानां च विसंवादे कथं प्रवृत्ताः स्मस्तदप्युपलभ्यतेऽत्र । अहमेतत् प्रत्यादेष्टुं नैवेच्छामि यन्मे प्रेमविषयकाः शब्दा गौतमस्योपदेशेन सह स्पष्टतया विसङ्गताः सन्तीति । किन्त्वेतत्कारणादेव शब्देषु नैवाऽधिकं विश्वसिमि, यतोऽहं जानामि यदेषा विसङ्गतिर्हि केवलं भ्रमरूपैवाऽस्ति, अहं च गौतमेन सह सर्वथैक्यमनुभवामि । यो जगतोऽसारतां क्षणभङ्गुरतां च सम्यक्तयाऽवबुद्धवान्, अथाऽपि यः सर्वेषु प्राणिषु स्त्रिान् तानुपदेष्टमुपकर्तुं च स्वीयं समग्रमपि जीवनं व्ययितवान् समर्पितवांश्च स कथमिव प्रेमपदार्थं नैव जानीयाद् न स्वीकुर्याद् वा? अस्य महागुरोरिदमेव कृत्यं तच्छब्देभ्योऽप्यधिकं महत्त्वपूर्णं, तस्य कार्याणि जीवनं च तदभिप्रायेऽप्याधिक्येन महिमान्वितानि । अहं तं केवलं शब्दानां विचाराणां च कृते महात्मतया नैव सम्मानयामि किन्तु तस्य जीवनस्योत्तमकार्यजातस्य च कृते' ।
ततो द्वावपि वृद्धजनौ चिराय मौनमेवोपविष्टौ । ततो गोविन्देन गन्तव्यमासीदतः स उक्तवान् – “सिद्धार्थ ! भवता स्वविचारा यत् प्रकाशितास्तदर्थं नितरां कृतज्ञोऽस्मि । तेषु केचन विचाराः किञ्चिदिव विलक्षणाः सन्ति, अहं शीघ्रतया तानाकलयितुमसमर्थोऽस्मि । तथाऽपि, भवतः उपकारं मन्ये, भवतो जीवनं शान्तिमयं भवेदित्याशासे च' ।
१६३