________________
स यद्यप्येवं वदन्नासीत् तथाऽप्यन्तस्तले तु सोऽचिन्तयद् यत् – सिद्धार्थो हि विचित्रो जनो, विचित्रांश्च विचारानभिव्यनक्ति। तस्य कल्पना भ्रान्ता इव लक्ष्यन्ते । महात्मनो बुद्धस्य सिद्धान्तास्तु ततः कियन्तो भिन्नाः सन्ति खलु ! ते हि स्पष्टाः सरलाः सुबोधाश्च सन्ति, तेषु नास्ति किञ्चिद् विलक्षणमयुक्तिकमुपहासयोग्यं वा । एवं सत्यपि सिद्धार्थस्य हस्तौ, पादौ, नेत्रे, ध्रुवौ, श्वसनं, स्मितं, प्रणतिः, गतिश्चेति सर्वमपि तस्य विचारेभ्यो भिन्नरूपेण मां प्रभावितं करोति । भगवतो गौतमबुद्धस्य निर्वाणानन्तरं सिद्धार्थेन विना नाऽहं तादृशमेकमपि जनं न प्रत्यक्षीकृतवान् यं दृष्ट्वा 'अयं सर्वथा पवित्रो जनः' इति प्रतीतिः स्यात् । भवन्तु नाम तस्य कल्पना विचित्राः, स्युर्नाम च तस्य वचांसि निरर्थकानि, किन्तु तस्य दृष्टिस्तस्य च हस्तः, तस्य त्वक् केशाश्चेति सर्वमपि पवित्रता, शान्ति, प्रसन्नतां, सौजन्यं, साधुतां चैव प्रसारयति; एतच्च मयाऽस्माकं महागुरोनिर्वाणानन्तरं न कुत्रचिदपि जने दृष्टमस्ति' ।
___ एवं विचारयन् गोविन्दः संशयितचित्तः सन्नेव सिद्धार्थं प्रणतवान्, मौनेन शान्ततयोपविष्टं सिद्धार्थं स भावपूर्वकं नतः ।
ततस्तेनोक्तं – 'सिद्धार्थ ! आवां वार्धक्यग्रस्तौ जातावधुना। इतः परं जीवने आवां न कदाचिदपि परस्परं द्रक्ष्यावः । मम प्रियमित्र ! भवता शान्तिः प्राप्ताऽस्तीति साक्षात् विलोकयामि, तथैवाऽनुभवाम्यपि यन्मया सा नैव प्राप्ताऽस्ति । समादरणीयमित्र ! कृपया मां शब्दमेकं वा कथयतु यमहं सम्यगवबोद्धं शक्नुयाम् । सिद्धार्थ ! तादृशं किञ्चन मे ददातु यन्मम पथ्युपयोगि स्यात्, यतो मे पन्था हि प्रायः कठिनस्तमसाऽऽवृतश्चाऽस्ति' ।
निःशब्दः सिद्धार्थस्तं मृदुना प्रशान्तेन स्मितेन सह विलोकितवान् । गोविन्दः स्थिरतया तद्वदनमेव पश्यन्नासीत् -
१६४