________________
सौत्सुक्यं सस्पृहं च । दुःखसहनं, निरन्तरं सत्यान्वेषणस्य श्रान्तिनिरन्तरा च निष्फलता तस्य दृष्टौ संलक्ष्यते स्म ।।
सिद्धार्थस्तल्लक्षित्वा स्मयमान एव तत्कर्णेऽत्यन्तं मन्दतयर्जुतया च कथितवान् – 'इतोऽपि किञ्चिन्निकटमायातु, इतोऽपि निकटम् । इदानीं मम ललाटे चुम्बनं करोतु' ।
एतन्निशम्य गोविन्दो यद्यपि किञ्चिद्विस्मितोऽभवत् तथाऽपि केनचिदकथ्येन संवेदनेन प्रेमाधिक्येन च वशीभूतः स तदादेशमनुसृत्य प्रवीभूतः सन् समीपमागतः स्वीयाधरद्वयेन च तस्य ललाटं संस्पृष्टवान् । संस्पृष्टमात्र एव तत्र किञ्चिदद्भुतं संवेदनं तेनाऽनुभूतम् । इतोऽपि तन्मानसे सिद्धार्थस्य विचित्राः शब्दाः प्रतिफलन्त आसन्, इतोऽपि स कालस्य कल्पनामपास्तुं निरर्थकतया प्रयतमान आसीत्, संसार-निर्वाणयोरैक्यमवगन्तुं यत्नं कुर्वन्नासीत्, इतोऽपि च तन्मानसे मित्रस्य शब्दानधिकृत्य प्रकटितोऽनादरस्तं प्रति जातेन दुर्निवारप्रेम्णा पूज्यभावेन च सह विवदन्नासीत् तावतैवैतत् संवेदनं घटितम् ।।
तस्येदानीं स्वमित्रस्य सिद्धार्थस्य वदनं नैव दृश्यते स्म, प्रत्युताऽन्यान्येव वदनानि स दृष्टवान्, बहूनि वदनानि, दीधैंकाऽऽवलिरेव वदनानां, निरन्तरो वदनप्रवाहः - शतशः सहस्रशो वदनानि, यानि क्षणं स्थित्वाऽदृश्यीभवन्ति स्म, तथाऽपि च तत्रैव सन्तीति प्रतिभासमानानि आसन्, यानि च प्रतिक्षणं स्वयमेव परावर्तमानानि नावीन्यं च प्राप्यमाणानि आसन्, तथाऽपि सर्वाणि सिद्धार्थसत्कान्येवाऽऽसन् । स कस्याश्चित् शफर्याऽतिमहत्तरया व्यादत्तं मुखं दृष्टवान्, कस्यचिन्मरणोन्मुखस्य निष्प्रभलोचनस्य मीनस्य मुखं दृष्टवान् । स कस्यचन नवजातस्य शिशो रक्तवर्णं वलीपूर्णं रोदनप्रवणं च मुखं विलोकितवान् । मनुजशरीरं छुरिकया प्रहरतः कस्यचित् हिंसकस्य मुखं स
१६५