________________
दृष्टवान्, समकालमेव च स तं हिंसकं मस्तकमानम्य जान्वोरुपविष्टं वधकेन च च्छिद्यमानमस्तकं दृष्टवान् । स कामकेलिरतानां स्त्रीपुरुषाणां शरीराणि - विविधमुद्रास्थितानि दृष्टवान् । स स्थिराणि शीतलानि शून्यानि विस्तीर्णानि च शवानि दृष्टवान् । स पशूनां, शूकराणां, मकराणां, करिणां, वृषभाणां, पक्षिणां च मस्तकानि दृष्टवान् । स कृष्णमग्नि च दृष्टवान् । स एतान् आकारान्, वदनानि चैतानि परस्परं सहस्रधा सम्बद्धानि, अन्योन्यं साहाय्यकराणि, स्निह्यमानानि, द्वेषकराणि विनाशकराणि च दृष्टवान् । प्रत्येकमेतानि मरणशीलानि, उत्कटानि पीडाकराणि च क्षणभङ्गुरत्वोदाहरणानि आसन् । एवंस्थितेऽपि तेषामन्यतमदपि नैवाऽम्रियताऽनश्यत वा, केवलं तानि परावर्तितानि, पुनर्जन्म प्राप्तानि, निरन्तरं च नूतनं वदनं धारयन्ति आसन् – केवलं काल एव नव-पुराणयोर्वदनयोर्मध्येऽतिष्ठत । एते सर्वेऽपि आकारा वदनानि च विरमन्ति स्म, प्रवहन्ति स्म, पुनर्जायन्ते स्म, अतीतं तरन्ति स्म, परस्परेण च संयुज्यन्ते स्म । तथैतेषां सर्वेषा - मप्युपरिष्टात् सातत्येन किञ्चित् सूक्ष्ममवास्तविकमप्यस्तित्वमयं, श्लक्ष्णकाचवद्, हिमवत्, पारदर्शकचर्मवत्, कवचवत्, जलावरणवत् वा विस्तृताकारं दष्टवान्, तच्चाऽऽवरणमासीत् सिद्धार्थस्य वदनं – स्मितपूर्णं वदनं, यत् स्वीयौष्ठाभ्यां गोविन्दस्तदा स्पृशन्नासीत् । गोविन्देन दृष्टं यदिदमावरणतुल्यं स्मितं, प्रवहमानानामाकाराणामैक्यतुल्यं स्मितं, सहस्रशो जन्म-मरणानां समकालीनत्वरूपं स्मितं सिद्धार्थस्य स्मितमिदं सम्पूर्णतया तथैव मृदु, प्रशान्तं, गहनं, प्रसन्नं, सोपहासं धीरं, सहस्रपुटयुतं चाऽऽसीद् यथा भगवतो गौतमबुद्धस्याऽऽसीत्, यच्च स सहस्रशः समादरेण विलोकितवानासीत् । यथा स पूर्णत्वं प्राप्तो भगवान् स्मयति स्म तथैवेदमपि सिद्धार्थस्य स्मितमासीत् ।
१६६
-