________________
सम्यङ् नैव जायते । यदा वयं विचाराणामभिव्यक्तिं कुर्याम तदा सर्वदा ते किञ्चिदिव परावर्तन्ते, किञ्चिद् विकृता भवन्ति स्वल्पतया मूर्खता अपि भवति । एवं सत्यपि, एकस्य जनस्य यन्मूल्यवत् प्रज्ञापरं च भासते तदेवेतरस्याऽसम्बद्धमनर्थकं च भासते इत्येतदपि मां प्रीणयति समुचितं च भासते' ।
गोविन्दः शान्त्या शृण्वन्नासीत् । किञ्चिन्मौनानन्तरं तेन स्खलद्वाचा पृष्टं 'किमर्थं भवान् मे पाषाणविषयकं कथनं कथितवान् ?'
-
'अहो ! तत् त्वहं विना कञ्चनाऽऽशयमेव कथितवान् । किन्तु कदाचित् तदेवमपि ज्ञापयति यन्मे - पाषाणो, नदी, सर्वाणि चाऽन्यानि वस्तूनि यानि वयं पश्यामः यतश्च वयं किञ्चित् शिक्षामहे - तत् सर्वमपि रोचते । अहं पाषाणमपि प्रेमविषयं कर्तुं शक्नोमि, वृक्षं वल्कलखण्डं वाऽपि च । एतानि सर्वाण्यपि वस्तून्येव, तानि च कश्चन प्रीणात्येव । किन्तु शब्दानहं नैव प्रीणीयाम् । ततश्चोपदेशा मत्कृते न किञ्चिदुपयोगिनः, यतस्तेषु नास्ति काठिन्यं, न मार्दवं नैव वर्णाः, नाऽपि कोणाः, न हि गन्ध:, न च स्वाद: । ते हि अन्यत् किञ्चिदप्यभूत्वा केवलं शब्दा एव सन्ति । एते शब्दा एव भवन्तं शान्तिप्रापणे बाधकाः स्युः कदाचित् । अस्मिन् जगति अत्यधिकाः शब्दाः सन्ति, मोक्षार्थं गुणार्थं चापि बहुशो बहवः शब्दाः प्रयुज्यन्ते, अतो मन्येऽहं यत् संसारो निर्वाणं चेत्यादयः केवलं शब्दा एव गोविन्द ! | निर्वाणं नाम न किञ्चित् सत् तत्त्वं, परन्तु केवलं शब्द एव' । गोविन्देनोक्तं – ‘भोः ! निर्वाणं न केवलं शब्दः, तत् तु विचारोऽस्ति मित्र !' |
सिद्धार्थोऽनुवर्तितवान् – 'भवतु स विचारः, किन्तु मया स्वीकर्तव्यमेवैतद् यन्मम दृष्टौ विचारस्य शब्दस्य च मध्ये
१६१