________________
सन्ति' ।
ततः किञ्चिदानम्य सिद्धार्थेनैकः पाषाणखण्डो गृहीतो गोविन्दस्य च दर्शयित्वा कथितं - ‘पश्यतु, अयमेकः पाषाणखण्डोऽस्ति, कियच्चित्कालानन्तरं ह्येष उर्वरामृत्तिकारूपेण परिणतो भविष्यति ततश्च वृक्षरूपेण पशुरूपेण मनुष्यरूपेणाऽपि वा परिणति प्राप्स्यति कदाचित् । पूर्वं तु मया पाषाणखण्डं दृष्ट्वा कदाचिदेवं कथितं स्यात् – एष तु केवलं कश्चन प्रस्तरखण्डः, अस्य न किमपि मूल्यं महत्त्वं वा, मायास्वरूपस्य जगतोऽश एषः, किन्तु परावर्तमाने जगति कदाचिदेष मनुष्यत्वं ब्रह्मत्वं चाऽपि प्राप्तुं समर्थः, अत एव चाऽस्य महत्त्वमस्तीति । किन्त्वधुनाऽहमेवं चिन्तयामि यदेष पाषाणखण्डः पाषाणस्त्वस्त्येव, एष पशुर्देवो बुद्धश्चाऽप्यस्ति । अहं तमेतदर्थं नैव पूजयामि प्रीणामि वा यदेष पुरा कश्चनाऽऽसीत् भविष्यति चाऽन्यविधः कश्चन भविष्यति, किन्तु स पूर्वमेव सर्वरूपोऽस्त्येव सर्वकालं चाऽपि सर्वरूपोऽस्ति । अहमेनं प्रीणामि यतः अयं प्रस्तरोऽस्ति, अद्याऽधुना च स मे प्रस्तरयाऽध्यक्षीभवन्नस्ति । तस्य प्रत्येकं रेखाः, सूक्ष्माण्यङ्कनानि, लघूनि छिद्राणि, पीतधूसरादिवर्णाः, काठिन्यं, तदभिघातशब्दः, तस्य शुष्कत्वं क्लिन्नत्वं वा चेति सर्वत्र किञ्चिन्मूल्यवत्ता सार्थकता च विद्यत एव । तादृशाः पाषाणखण्डा भवन्ति ये तैलमया इव फेनकमिव वा भासन्ते, अथवा पर्णवत् रेणुवद् वाऽपि भासन्ते, प्रत्येकमेते भिन्न-भिन्नाः, स्वकीयपद्धत्यैव च ओङ्कारमुपासते, प्रत्येकमपि च ब्रह्मण एव स्वरूपाणि । किन्तु समकालमेव एते प्रस्तरस्वरूपा अपि सन्त्येव, भवन्तु नाम तैलमया फेनकसमा वा । एतदेव मां प्रीणयति अद्भुतं च प्रतिभाति, उपासनाहँ च भासते । किन्त्वेतद्विषयेऽहमधिकं न किञ्चिद् वक्ष्ये । यतः शब्दैविचाराणामभिव्यक्तिः
१६०