________________
तस्मिन् सर्वस्मिंश्चाऽपि प्रतिपत्तव्य एव भवति । गोविन्द ! जगदिदं हि नाऽस्त्यपूर्णं नाऽपि च दीर्घपथेन पूर्णत्वं प्रति उत्क्रान्तिमत् । तत् तु प्रतिक्षणं सर्वथा पूर्णमेवाऽस्ति । प्रत्येकं पापमन्तर्निहितपुण्यबीजमेव भवति, प्रत्येकं शिशर्वार्धक्यसम्भावनां स्वस्मिन् धारयत्येव, प्रत्येकं स्तनन्धये मृत्योः शक्यता निहिताऽस्त्येव, प्रत्येकं मरणासन्नो स्वस्मिन् शाश्वततत्त्वं धारयत्येव । इतरो जनो मार्गे कियटूरे वर्तते इति ज्ञातुं न केनाऽपि शक्यते । यतः, कस्मिंश्चिल्लुण्टाके द्यूतकारे वाऽपि बुद्धो वर्तेत, कस्मिंश्चिच्च ब्राह्मणेऽपि लुण्टाको विद्येताऽपि । गाढध्यानवेलायां समाधौ वैव कालातिक्रमणं शक्यं, युगपदेव भूत-वर्तमानानागतं च द्रष्टुं शक्यं; ततश्च प्रत्येकं वस्तु पूर्णमेव, शुभमेव, ब्रह्मैव । अतो ममेदं प्रतिभाति यद् अस्तित्वयुतं प्रत्येकं वस्तु शुभमेवाऽस्ति - मरणं जीवनं चाऽपि, पापं च पुण्यं च, वैदुष्यं च मूर्खत्वं चाऽपि । प्रत्येकं वस्तु यथावस्थितं सुन्दरमेवाऽस्ति, प्रत्येकं वस्तु ममाऽनुमति ममाऽभ्युपगमं चैवाऽपेक्षते, मम स्नेहं सद्भावमेव च प्रतीक्षते । यद्येतत् स्यात् तदा मम सर्वत्र-सर्वदा च शुभमेव भवति, न किञ्चिदपि च मामुपद्रोतुं पीडयितुं वा समर्थं भवति । ___अहं मे शरीरादात्मनश्च सकाशात् बढेव शिक्षितवान् यथा - मया पापं कर्तव्यमनिवार्यमासीत्, कामासक्तिमत्कृते आवश्यक्यासीत्, धन-वैभवप्राप्त्यर्थं मया प्रयतनीयमासीत्, निर्वेदो निराशायाश्च परिसीमा, तत्प्रतीकारकरणं यया रीत्या विस्मरेयं, सर्वस्याऽपि जगतः प्रेम कर्तुं शिक्षेयं, केनचित् काल्पनिकतया पूर्णेन जगता तस्य तोलनं च न कुर्यामहं किन्तु तत् यथावत् स्वीकुर्यां, तस्मिन् स्निह्येयं, अहमपि च तस्यैवांऽशोऽस्मि - इत्येतदर्थं प्रमुदितो भवेयं, तया रीत्या मयाऽनुभवितव्यैवाऽऽसीत् ।
गोविन्द ! एते एतादृशाश्चाऽन्ये विचारा मम मस्तिष्के
१५९