________________
यदि किञ्चित् सत्यमेकपक्षीयं स्यात् तदैव तत् शब्दैरभिव्यज्येताऽऽव्रियेत वा । प्रत्येकं विचाररूपं शब्दैश्चाऽभिव्यज्यमानं वस्तु एकदेशीयं सत्यमर्धसत्यम् । तस्मिन् साकल्यं पूर्णत्वमैक्यं वा नैवाऽस्ति । यथा, यदा महात्मा बुद्धो जगद्विषयकं तथ्यमुपदिष्टवांस्तदा तेन तत् संसारो निर्वाणं चेति द्विधा विभक्तव्यमापतितं; एवं सत्यं भ्रान्तिश्च बन्धनं मुक्तिश्च इत्यादि । अन्यथा च नैतच्छक्यमस्ति । उपदेष्टृणां कृतेऽन्या काऽपि पद्धतिरेव नाऽस्ति । एवं सत्यपि जगदिदं अस्मदन्तः अस्मत्परितश्च वर्तमानं - हि न कदाऽप्येकदेशीयमेकाङ्गीयं वा भवति । कश्चनाऽपि मनुष्यः किञ्चित् कृत्यं वाऽपि च सर्वथा संसाररूपं निर्वाणरूपं चवा नैव भवति । कोऽपि जन: सर्वथा पापी सर्वथा च सज्जनो वा नैव भवति । किन्तु अस्माकं यदेवं प्रतिभाति तत्र “काल: सद् द्रव्यमस्ती’ति भ्रम एव कारणम् । कालस्तु सद्द्रव्यं नास्त्येव गोविन्द ! | अहं बहुश एतदनुभूतवानस्मि । एवं च यदि काल एव सत् नाऽस्ति तदा जगतः शाश्वततत्त्वस्य च मध्ये, दुःखस्य आनन्दस्य च मध्ये, पुण्यस्य पापस्य च मध्ये या भेदरेखा दृश्यते सा केवलं भ्रम एवाऽस्ति' ।
I
'एतत् कथं स्यात् ?' गोविन्दः ससम्भ्रमं पृष्टवान् । 'पश्यतु मित्र ! अहं पापी अस्मि, भवान् पापी अस्ति । किन्तु कदाचित् पापी ब्रह्मस्वरूपो भविष्यति, निर्वाणं प्राप्स्यति, बुद्धो भविष्यत्येव । अथाऽत्र यदिदं 'कदाचित्' इत्यस्ति तद् भ्रम एव, तद्धि केवलमुपमानमेवाऽस्ति । पापी हि बुद्धत्वप्राप्तेर्मार्गे नैव वर्तते, उत्क्रमणार्थं च नैव प्रयतते कदाऽपि । किन्तु वयमन्यरीत्या चिन्तयितुमालोचयितुं वा नैव प्रभवामः । वस्तुतः सम्भाव्यतारूपो बुद्धः पापिन्यपि विद्यत एव । तस्य भविष्यत् तत्राऽस्त्येव । शक्यस्वरूपोऽयं बुद्धः सुषुप्तो बुद्धस्त्वयि मयि
I
१५८
—