________________
गौतमबुद्धवत् स जीवनस्य सारभूतं तत्त्वं जानाति स्म । वस्तुतः स एकः पवित्रो मनुष्य एकः सत्पुरुष आसीत्' ।
गोविन्द उक्तवान् – 'सिद्धार्थ ! मन्ये यद् भवते अद्याऽपि विनोदकरणं किञ्चिदिव रोचते । अहं भवन्तं श्रद्दधे, जानामि च यद् भवता कस्यचनाऽपि गुरोरनुसरणं नैव कृतम् । किन्तु, एतावताऽपि भवतः स्वयंसिद्धमेव किञ्चन ज्ञानं, केचन सिद्धान्ता विचारा वा न सन्ति यत्साहाय्येन भवान् सुखेन जीवति ? यदि भवानत्र विषये कञ्चित् कथयेत् तदा मे महान् सन्तोषो भविता' ।
सिद्धार्थः कथितवान् – 'आम्, ममाऽपि केचन विचाराः किञ्चिच्च ज्ञानमासीदेव । कदाचिच्च मुहूर्तमानं दिनार्धं वाऽहं ज्ञानविषयिकी जागृति वहामि, यथा कश्चन स्वचित्ते कदाचिद् जीवनविषयिकी जागृति धारयति । तथा ममाऽपि बहवो विचारा आसन्नेव किन्तु तेषां भवदग्रे निरूपणं मत्कृते कष्टदं स्यात् । अथाऽप्येको विचारो मां सदाऽपि आकृषति गोविन्द !, यत् - प्रज्ञायाः सङ्क्रमणं सर्वथाऽशक्यमस्ति । यदि कश्चन प्राज्ञो जनो प्रज्ञां कस्मैचिद् वितरीतुं प्रयतते तदा तदज्ञानमेव मे प्रतिभाति' ।
'किं भवान् परिहासं करोति वा ?'
'नैव भोः ! । मया यदाविष्कृतमस्ति तदेव भवते कथयन्नस्मि । ज्ञानं हि परस्मै दातुं परस्मिन् वा सङ्क्रमयितुं शक्यं, न तु प्रज्ञा । कश्चन तां समासादयेत्, तया स्थिरो भवेत्, तामुपयुज्य च चमत्कारानपि कुर्यात्, किन्तु तस्या वितरणं सङ्क्रमणं शिक्षणं वा कर्तुं तु सर्वथाऽशक्यम् । अहं तारुण्य एवैतस्मिन्नर्थे साशङ्क आसम् । अनेनैव च कारणेनाऽहं गुरूणां सान्निध्ये स्थिरो नैव जातः । अन्योऽप्येको विचारोऽस्ति गोविन्द ! यं भवान् परिहासं मूर्खत्वं वा मन्येत । स चैवमस्ति – प्रत्येकं सत्यस्य विपर्ययोऽपि समानतयैव सत्यमेवाऽस्ति । उदाहरणार्थ,
१५७