________________
च वस्त्राणि परिधातव्यानि भवन्ति । अहमपि तेषामन्यतम एव प्रियसखे ! । भवतोऽत्र स्वागतमस्ति गोविन्द !, अहं भवन्तं मे कुटीरे रात्रियापनार्थमामन्त्रयामि' ।
गोविन्दस्तस्यां रात्रौ कुटीर एव न्युषितः, वासुदेवस्य चैव शय्यायां शयितवान् । स बाल्यकालीनाय स्वमित्राय बहून् प्रश्नानपृच्छत्, सिद्धार्थश्च स्वजीवनविषयकान् बहूनंशान् तस्याऽकथयत् ।
प्रातर्यदा गोविन्दस्य गमनकालः सन्निहितस्तदा किञ्चित् स्खलद्वाक् सन् स सिद्धार्थमुक्तवान् – 'मित्र ! मम गमनात् पूर्वमहमितोऽप्येकं प्रश्न प्रष्टुमिच्छामि तावत् । भवान् कं सिद्धान्तं कां वा श्रद्धां किं वा ज्ञानमवलम्बते यद् भवते सम्यग् जीवितुमुचितं च कर्तुं सहायं करोति ?'
सिद्धार्थेनोक्तं - 'भवान् जानात्येव मित्र ! यत् तारुण्येऽपि यदाऽऽवां श्रमणीभूय वनेऽवसतां तदाऽपि अहं सिद्धान्तेषु गुरुषु वा नैव श्रद्दधामि स्म, प्रत्युत तान् पृष्ठतः करोमि स्म । अहमिदानीमपि तादृशीमेव विचारधारां दधामि, एवंसत्यपि ततः कालादेवाऽद्ययावत् मे बहवो गुरवः सञ्जाताः । एका सुन्दररूपवती गणिका चिराय मे गुरुरासीत्, एवं कश्चन धनिको वणिक् द्यूतक्रीडकश्चाऽपि मे गुरू अभवतम् । एकस्मिन्नवसरे तु पर्यटनं कुर्वाणो महात्मनो बुद्धस्य कश्चन शिष्योऽपि मे गुरुः सञ्जातः । अरण्यमध्ये गाढनिद्रावशगस्य मम रक्षणार्थं स स्वीयां यात्रामपि रुद्धवा मत्पार्वे उपविष्ट आसीत् । अहं तत्सकाशादपि किञ्चिच्छिक्षितवान्, एतदर्थं चाऽहं तस्य कृतज्ञोऽस्मि, भृशं कृतज्ञः । एवं स्थितेऽपि अधिकं ज्ञानं तु मया अस्या नद्याः सकाशाद् मे पूर्वगामिनश्च वासुदेवस्य सकाशादेव प्राप्तमस्ति । स हि सर्वथा सामान्यो जन आसीत्, विचारकस्तु नाऽऽसीदेव, तथाऽपि
१५६