________________
वदानि ? केवलं, भवान् प्रायः सत्यान्वेषणार्थं भृशं प्रयतते, तत्परिणामतश्च भवान् तन्न लब्धुं शक्तः स्यात् - इति' । ‘एतत् कथं वा स्यात् ?'
'यदा कश्चनाऽन्वेषणे रतो भवति तदाऽनायासमेव स यदन्वेषणे लग्नस्तदेव स पश्यति ततश्च सोऽन्यत् किञ्चिदपि प्राप्तुं नैव शक्नुयात्, किञ्चिदप्यङ्गीकर्तुं नैव सिद्धो भवेत्, यतः स केवलं तस्मिन् विषय एव चिन्तयन् भवति, स ध्येयनिष्ठो भवति, स ध्येयेनैवाऽऽविष्टो भवति । अन्वेषणं नाम ध्येयसहितेन भवितव्यं, किन्तु प्राप्तिर्नाम मुक्ति:, सर्वग्रहणशीलता, ध्येयविहीनता वा । भोः सत्पुरुष ! यद्यपि भवान् सत्यान्वेषकोऽस्ति, स्वध्येयार्थं नितरां प्रयत्नशीलोऽप्यस्ति, किन्तु तत एव भवतो दृष्टेः समक्षमेव यानि वस्तूनि सन्ति तान्यपि भवान् द्रष्टुं न क्षमः ।
'अहमितोऽपि भवतः कथनस्य भावार्थं नैवाऽवगच्छामि ननु ! किं वाऽभिप्रैति भवान् ? गोविन्दोऽपृच्छत् ।
'भो मान्य ! एकदा भवान्, बहुवर्षेभ्यः पूर्वं, नद्या अस्यास्तटे आगतः, जनमेकं चाऽत्र शयानं दृष्टवान् । भवान् तद्रक्षणार्थं तत्समीप एवोपविष्टः, किन्तु तमभिज्ञातुं नैव प्रभुर्जातो भो गोविन्द !' ।
आश्चर्यचकितो मन्त्रमुग्धश्च जातः स भिक्षुर्नाविकं निरीक्षितवान् । ‘भवान् सिद्धार्थोऽस्ति खलु ?' स कातरतया पृष्टवान् । ‘अहं भवन्तमिदानीमपि नैव प्रत्यभिज्ञातवान् । भवतः पुनर्दर्शनं जातमित्यतोऽत्यन्तं प्रसन्नोऽस्मि भोः ! सिद्धार्थ ! अतीव हृष्टोऽस्मि । भवान् बहु परावर्तनं प्राप्तोऽस्ति मित्र ! किमिदानीं भवान् नाविकः संवृत्तोऽस्ति वा ?'
सिद्धार्थः सस्नेहं हसितवान्, 'आम् अहं नौचालको जातोऽस्मि । बहुभिर्जनैर्बहुश: परावर्तनं प्राप्तव्यं भवति, नैकविधानि
|
१५५
—
-