________________
८. गोविन्दः
एकदा गोविन्दः, प्रसिद्धया गणिकया कमलया बौद्धभिक्षुभ्यो विहारार्थं समर्पिते क्रीडोद्याने कैश्चिदन्यैभिक्षुभि: सह कञ्चित् कालं विश्रान्त्यर्थमुषितवान् । तत्र च स वृद्धनाविकविषयिकीं वार्तां श्रुतवान्, यः केवलमेकदिवसीयप्रवासान्तरे नदीतटे वसति स्म, जनेषु च सत्पुरुषतया प्रथित आसीत् । यदा गोविन्दस्ततः प्रस्थितस्तदा स नदीं गच्छता मार्गेणैव प्रस्थितः । यतो यद्यपि स स्वीयं समग्रं जीवनं भिक्षुसङ्घस्य नियमाननुसृत्यैव यापितवान् आसीत्, स्वस्य वयो नियममर्यादां विनीतत्वं चाऽऽश्रित्य युवभिक्षूणामादरपात्रमप्यासीत्, तथाऽपि तस्य हृदयमितोऽपि चाञ्चल्यं बिभर्ति स्म, सत्यान्वेषणेच्छा चाऽतृप्ताऽऽसीत् ।
I
नदीं प्राप्य स वृद्धनाविकाय नदीपारं प्रापयितुं प्रार्थयत । यदा तौ नदीपारं प्राप्य नौकातोऽवतीर्णौ तदा स वृद्धं तं कथितवान् 'भवान् साधून् यात्रिणश्च प्रति भृशं सद्भावं दर्शयति खलु ! भवान् आस्माकीनान् बहून् साधून् नदीं तारितवानसि । मन्ये, अहमिव भवानपि सन्मार्गगवेषक एवाऽस्ति किल ?'
—
सिद्धार्थस्य वृद्धयोर्नयनयोः स्मितज्योत्स्ना दृश्यते स्म । सोऽवदत् – 'किं भवान् स्वं मार्गगवेषकत्वेन गणयति खलु ? मान्यो भवान्, यो वर्षाणि यावद् भिक्षुत्वं प्रपन्नः सोऽपि एवं वदति खलु ?'
गोविन्देनोक्तं – ‘यद्यप्यहं वृद्ध एव, तथाऽपि मयाऽन्वेषणं नैव त्यक्तं, कदाऽप्यहं तन्नैव त्यक्ष्याम्यपि । एषैव मम नियतिरस्ति । किन्तु मन्ये यद् भवान् किञ्चिदुपलब्धवान् अस्ति इति । मित्र ! किं भवान् तद्विषये किञ्चिद् कथयति वा माम् ?'
सिद्धार्थनोक्तं – ‘भवते मूल्यवद् भवेदित्येवं किं वाऽहं
१५४