________________
गच्छता कालेन तस्य मुखे विलसमाना स्मितरेखाऽदृश्येव जाता, शनैः शनैश्च तस्य मुखे धनिकजनानामिव उद्वेगस्याऽसन्तोषस्याऽरुचेरप्रसन्नताया उदासीनताया नैष्ठुर्यस्य च भावाः समजायन्त । क्रमशो धनिकजनेषु व्याप्तमात्मदौर्बल्यं तच्चित्तमपि व्याप्तुमारब्धम् । खेदस्य सूक्ष्ममावरणं तन्मन आच्छादयितुं प्रारब्धम् । तच्च प्रतिदिनं किञ्चिद् गाढतरं, प्रतिमासं किञ्चन निबिडतरं, प्रतिवर्षं च किञ्चिद् गुरुतरं जायमानमासीत् । यथा नवं वस्त्रं कालात्यये जीर्णं, विवर्णं, मलिनं, सच्छिद्रं, जर्जरं च जायते तथैव गोविन्दाद् वियुक्तेरनन्तरं सिद्धार्थस्य नवं जीवनमपि गच्छता कालेन जीर्णमिव सञ्जातम् । वर्षेषु व्यतीतेषु तस्याऽपि वर्णो दीप्तिश्च क्षीणे जाते । वलिभिर्मलचित्रैश्च तन्मलीमसमिवाऽभवत् । अन्तःस्थिते भ्रान्तिजुगुप्से यदा-कदाचिदपि प्रकटीभवतः स्म । किन्तु सिद्धार्थ एतत्सर्वं नैव निरैक्षत । तस्य निरीक्षणे केवलमेतदेव समागतं यदेकदा येन विशदेन परिस्फुटेन चाऽऽन्तरध्वनिना स जागरित आसीत्, तस्योत्कृष्टे समये यो मार्गदर्शक आसीत् स ध्वनिरद्य सर्वथा क्षीणो विरतश्च जातोऽस्तीति ।
संसारस्तस्य चित्तवृत्ताविदानीमाधिपत्यं करोति स्मेव । भोग-विलासाः, लोलुपता, कार्यवैमुख्यमित्यादयस्तु तज्जीवनं दूषयति स्मैव, किन्तु यं दोषं स स्वयमेव सर्वदाऽतीव धिक्करोति स्म स एव दोषः परिग्रहोऽपि तच्चित्तमभिव्याप्य स्थित आसीत् । सम्पत्तिः, अधिकार ऐश्वर्य - मित्यादि सर्वमपि शनैः शनैस्तं स्ववशे स्थापयति स्म । इदानीं तत् सर्वमपि तस्य कृते क्रीडामात्रं क्रीडनकं वा नाऽऽसीत् प्रत्युत बन्धनं भारभूतं चाऽभवत् । चित्रं त्वेतद् यदुत्पथगामित्वमाश्रित्य स सर्वतोऽप्यधमां व्यसनेषु निष्ठारूपां द्यूतक्रीडां कर्तुमारब्धवान् ।
=
1
८४